SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ऋजुमतिरधोलौकिक ग्रामेषु यः सर्वाधस्तन आकाशप्रदेशप्रतरस्तं यावत् ऊई यावत् ज्योतिश्चक्रस्योपरितलं तिर्यग्यावदर्द्धतृतीयद्वीपसमुद्रेषु अर्द्धतृतीयाङ्गुलहीनेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तानां मनोगतान् भावान् जानाति, विपुलमति| रर्द्धतृतीयैरङ्गुलैरभ्यधिकान्, कालंत ऋजुमतिरतीतमनागतं च पल्योपमस्यासत्येयभागमेव विपुलमतिरभ्यधिकतरं विशुद्धतरं च, भावत ऋजुमतिरनन्तान् भावान् जानाति, तानेव विपुलमतिरभ्यधिकतरान् इह साक्षात् तानेव मनःपर्यायान् परिच्छिनत्ति, मनस्त्वपरिणतैः पुनः स्कन्धैरालोचितान् बाह्यानर्थान् मनोद्रव्याणां तथारूपपरिणामान्यथानुपपसितः, युक्तं चैतत् यतो मूर्त्तद्रव्यालम्बनमेवेदं मनःपर्यायज्ञानमिष्यते, मन्तारस्त्वमूर्त्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते, नान्यथेति प्रतिपत्तव्यम्, आह च भाष्यकृत् - "मुणइ मणोदवाई नरलोए सो भणिजमाणाई । काले भूय-भविस्से पलियाऽसंखिज्जभागम्मि ॥ १ ॥ दबमणोपज्जाए जाणइ पासइ य तग्गएऽणंते । | तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ २॥” (वि.८१३ -४ ) इदं मनःपर्यायज्ञानं मनोद्रव्याणां पर्यायानेव गृह्णन् उपजायते, पर्यायाश्च विशेषाः, विशेषग्राहकं च ज्ञानमतो मनःपर्यायज्ञानमेव भवति नतु मनःपर्यायदर्शन मिति ॥ सत्पदप्ररूपणतादूय| स्त्ववधिज्ञानवदगन्तव्याः, नानात्वं चानाहारकापर्याटको न प्रतिपद्यमान को नापि पूर्वप्रतिपन्नाविति ॥ उक्तं मनःपर्यायज्ञानमिदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयन्नाह Jain Education International अह सववतपरिणाम - भावविनत्तिकारणमणतं । सासयमप्पडिवायं, एगविहं केवलण्णाणं ॥ ७७ ॥ अथशब्द इहोपन्यासार्थः, पूर्वमुद्देशसूत्रे मनःपर्यायानन्तरं केवलज्ञानमुपन्यस्तं, तत्सम्प्रति तात्पर्यनिर्देशार्थमुपन्यस्यते For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy