SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मनःपयो आव.मल, उपोद्धाते यम अवधौ गा.७६ OCAL लब्धीनामामर्षोषध्यादिलब्धीनामपि चाभव्यानामपि सम्भवात् ॥ सम्पति मनःपर्यायज्ञानं लब्धिनिरूपणायां सामान्यतोपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराहमणपज्जवनाणं पुण, जणमणपरिचिंतियत्थपागडणं माणुसखेतनिबद्धं, गुणपचइयं चरित्तवओ॥७३॥ मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थम् , पुनःशब्दो विशेषणार्थः, स च रूपिविषयक्षायोपशमिकत्वादिसाम्येऽप्यवधिज्ञानादिदं मनःपर्यायज्ञानं स्वाम्यादिभेदागिन्नमिति विशेषयति, तथाहि-अवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति,द्रव्यतोऽशेषरूपिद्रव्यविषयं क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणखण्डापेक्षया लोकालोकविषयं च कालतोऽतीतानागतासङ्ख्येयोत्सपिण्यवसर्पिणीविषयं भावतोऽशेषेष्वपि रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविषयं, मनःपर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामौषध्याद्यन्यतमद्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतोऽतीतानागतपल्योपमासङ्ख्येयभागविषयं भावतो मनोगतानन्तपर्यायालम्बनं, ततोऽवधिज्ञानाद्भिन्नम् , एतदेव लेशतः सूत्रकृदाह-जनमनःपरिचिन्तितार्थप्रकटनं, जायन्ते इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनःपरिचिन्तितार्थः स प्रकव्यते-प्रकाश्यतेऽनेनेति जनमन:परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं, न तद्वहिर्व्यवस्थितप्राणिमनोद्रव्यविषयमिति भावः, तथा गुणा:-क्षान्त्यादयः ते प्रत्ययाः-कारणं यस्य तद् गुणप्रत्ययम्, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत्तोऽप्रमत्तसंयतस्य । इदं मनःपर्यायज्ञानं समासतश्चतुर्विध प्रज्ञष्ठं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः ऋजुमतिरनन्तानन्तप्रादेशिकान् मनोभावपरिणतपुद्गलस्कन्धान जानाति, वानेव विपुलमतिर्विशुद्धतरान, क्षेत्रत न. ततोऽवधिज्ञानाशासावर्थश्च प्राणिमनोद्रव्याव SASSSS __JainEducation inted For Private & Personal use only Kelwwjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy