________________
Jain Education Interna
शरीरकरणादिलब्धयो वेदितव्याः, एतासां च लब्धीनां मध्येऽर्हत्त्वलब्धिर्वासुदेवत्वलब्धिश्चक्रवर्त्तित्वलन्धिः सम्भिन्नश्रोतोलब्धिर्जङ्घाचारणलब्धिः पूर्वधरलब्धिरित्येताः सप्त लब्धयो भव्यस्त्रीणां नोपजायन्ते, अभव्यपुरुषाणामृजुमतित्वविपुलमतित्वलब्धी अपि, अभव्यस्त्रीणां मध्वाश्रवक्षीराश्नवसप्पिराश्रवलब्धयोऽपि, उक्तं च - " जिणबलचक्कीकेसव संभिन्ने जंघचरण पुवे य । भवियाए इत्थियाए एयाओं न सत्त लद्धीओ ॥ २ ॥” शेषास्तु भवन्तीति सामर्थ्यादवसीयते, “रिजुमइविपुलमईओ, सत्त य एयाओं पुषभणियाओ । लद्धीओं अभवाणं, होंति नराणंपि न कयाइ ॥ १॥ अभवियमहिलाणंपिहु एयाओ न होंति सत्त लद्धीओ । महुखीरासवलद्धीवि नेव सेसाओं अविरुद्धा ||२||” अन्ये त्वेवमाहुः - आमर्षौषधिलब्धिः १ श्लेष्मीपधिलब्धिः २ जलौषधिलब्धि ३ विप्रश्रवणौषधिलब्धिः ४ सर्वौषधिलब्धिः ५ कोष्ठबुद्धिः ६ बीजबुद्धिः ७ पदानुसारी ८ सम्भिन्नश्रोता ९ ऋजुमतिः १० विपुलमतिः ११ क्षीरमध्वाश्रवलब्धिः १२ अक्षीणमहानसलब्धिः १३ वैक्रियलब्धिः | १४ जङ्घाचारणलब्धिः १५ विद्याधरलब्धिः १६ अर्हत्त्वलब्धिः १७ चक्रवर्त्तित्वलब्धिः १८ बलदेवत्वल ब्धिः १९ वासुदेवत्वलब्धिः २० एता विंशतिलब्धयो भव्यपुरुषाणां भवन्ति, तथा चोक्तम् - "आमोसही य खेले जल्ले विप्पे य होइ सब य । कोट्ठे यं बीयबुद्धी पयाणुसारी य संभिन्ने || १|| उज्जुमइ विउल खीरे महु अक्खीणे विउवि चरणे य। विज्जाहर अर - |हंता चक्कीबलवासु वीसइमा ॥२॥ भवसिद्धियाणमेया, वीसंपि हवंति इत्थ लद्धीओ !” इति, तदेतदसम्यक्, अन्यासामपि भवसिद्धियोग्यानां गणधरत्वपुलाकत्वप्रभृतीनां लब्धीनां सद्भावात् नाप्येता भवसिद्धिकयोग्या एव, वैक्रियविद्याधरत्व
For Private & Personal Use Only
w.jainelibrary.org