________________
पाव.मल. उपोद्धाते अवधी
लन्ध्यधिकारः के. शवादिवलं
॥७९॥
७१-२
MARA
मनुष्याः, देवाश्चासहस्रारात्, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तोऽवसातव्याः, ते हि पूर्व मनुप्यभवे समुपार्जितोर्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाशीविषलब्धिसंस्कारादाशीविषलब्धिमंतो व्यवहियन्ते, ततः परं पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तव्यपदेशभाजः, यद्यपि च नाम पर्याप्ता अपि देवाः शापादिना परं व्यापादयन्ति तथापि न लब्धिव्यपदेशः, भवप्रत्ययतस्तधारूपसामर्थ्यस्य सर्वसाधारणत्वात् , गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धिः। 'केवली येत्यादि, केवलिनश्च प्रसिद्धाः,मनोज्ञानिनो मनःपर्यायज्ञानिनः, तच्च मनःपर्यायज्ञानं विपुलमतिरूपं गृह्यते, ऋजुमतिरूपस्य प्रागेव गृहीतत्वात् तत्र, विपुलं-बहुविशेषोपेतं वस्तु मन्यते-गृह्णातीति विपुलमतिः, बाहुलकारकर्तरि क्तप्रत्ययः, यदिवा विपुला-पर्यायशतोपेतचिन्तनीयघटादिवस्तुविशेषग्राहिणी मतिर्मननं यत् तद्विपुलमतिः, पूर्वाणि धारयन्तीति पूर्वधराः-दशचतुर्दशपूर्वविदः, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकराःचक्रवर्तिनः-चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः, बलदेवाः प्रसिद्धाः, वासुदेवाः सप्तरत्नाधिपाः अर्द्धभरतप्रभवः, एते हि सर्वे एव चारणादयो लब्धिविशेषाः, इह वासुदेवत्वं चक्रवर्तित्वमहत्त्वं च ऋद्धयः प्रतिपादितास्तत्र तदतिशयप्रतिपादनार्थमाह
सोलस रायसहस्सा सबबलेणं तु संकलनिवद्धं । अंछंति वासुदेवं अगडतडमी ठियं संतं ॥१॥ घेतूण संकलं सो, वामगहत्येण अंछमाणाणं । मुंजिन विलिंपिज्ज व महुमहणं ते न चाएंति ॥७२॥
RAACARRIERRESS
॥७९॥
SBiainelibrary.org
___ Jain Education intein
For Private & Personal Use Only