SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Jain Education International इह वीर्यान्तर यक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य प्रदर्श्यते, षोडश राजसहस्राणि सर्वबलेन हस्त्यश्वरथपदातिरूपेण समन्वितानि शृङ्खलानिवद्धं 'अञ्छंति' देशीवचनमेतत् आकर्षन्ति वासुदेवं अवटतटे - कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमाणाणं'ति आकर्षतां, भुंजीत विलिंपेद्वा अवज्ञया हृष्टः सन् न पुनस्ते मधुमथनं शक्नुवन्त्यात्रष्टुमिति वाक्यशेषः ॥ चक्रवर्त्तिबलप्रतिपादनार्थमाह सोला बत्तीसा, सङ्घबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि, अगडतडम्मी ठियं संतं ॥ ७३ ॥ घेण संकलं सो, वामगहत्थेण अंछमाणाणं । भुंजिज्ज विलिंपिज्ज व, चक्कहरं ते न चाएंति ॥ ७४ ॥ 'at षोडशक' द्वात्रिंशदित्येतावत्येव वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्त्तिनो वासुदेवात् द्विगुणर्द्धिख्यापनार्थे, राजसहस्राणीति गम्यते, द्वात्रिंशद्राजसहस्राणि सर्वबलेन समन्वितानि शृङ्खलानिवद्ध माकर्षन्ति चक्रवर्त्तिनं अवटतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेनाकर्षतां भुञ्जीत विलिम्पेद्वा न पुनस्ते चक्रवर्त्तिनं शक्नुवन्त्यात्रष्टुमिति वाक्यशेषः ॥ सम्प्रति तीर्थकरवलप्रतिपादनार्थमिदमाह जं सवस्स उ बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥ ७५ ॥ यत् केशवस्य बलं तद् द्विगुणं भवति चक्रवर्तिनः, ततः शेषबलाद् 'बला' बलदेवा बलवन्तः, केशवबलापेक्षया त्वर्द्धबला इति प्रसिद्धेरवगन्तव्यम्, तथानिरवशेषवीर्यान्तरायक्षयादपरिमितं बलं येषां तेऽपरिमितबलाः, के ते इत्याह-जिनवरेन्द्रा:-तीर्थकृतः, तथा (यद्वा) ततश्चक्रवर्त्तिनो बलाद्बलवन्तो जिनवरेन्द्राः कियता वलेनेत्याह- अपरिमितबलाः, अपरिमितेन For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy