SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ कवनमभिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति, द्वितीयेन स्वस्थानमिति, जलाचारणो हि चारि-1 वातिशयप्रभावतो भवति, ततो लब्ध्युपजीवेन औत्सुक्यभावतः प्रमादसम्भवाच्चारित्रातिशयनिबन्धना लब्धिरपि हीयते, ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति, विद्याचारणाः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति. द्वितीयेन तु नन्दीश्वरं, तत्र च गत्वा चैत्यानि वन्दते, ततःप्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, तथा। मेरंगच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति, द्वितीयेन पण्डकवनं, तत्र चैत्यानि वन्दित्वा ततःप्रतिनिवर्तमान एकनवोत्पातेन स्वस्थानमायाति, विद्याचारणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनैवोत्पातेन स्वस्थानागमनमिति, उक्तं च-"अइसयचरणसमत्था जङ्घा-विजाहि चारणा मुणओ। जंघाहिँ जाइ पढमो नीसं काउं रविकरेऽवि ॥२॥ एगुप्पाएण गओ रुयगवरमिओ तओ पडि-1 नियचो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥३॥ पढमेण पंडगवणं, वीओप्पाएण नंदणं एइ । तइओप्पाएण| तोह जंघाचारणो होइ ॥४॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो। इहई॥५॥ पढमेण नंदणवणे बीओप्पारण पंडगवणम्मि। एइ इहं तइएणं जो विजाचारणो होइ॥५॥" (वि.७८६-९०) 'आसीविस'इति, आस्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते द्विविधा-जातितः कर्मातच, तत्र जातितो वृश्चिकमण्ड कोरगमनुष्यजातयः क्रमेण बहुबहुतरबहुतमविषाः, वृश्चिकविषं हि उत्कर्षतोऽर्द्धभरतक्षेत्रप्रमाणं शरीरं व्यामोति, मासादामण्डूकविष भरतक्षेत्रप्रमाणं, भुजङ्गमविषं जम्बूद्वीपप्रमाणं, मनुष्यविषं समयक्षेत्रप्रमाणं, कर्मतश्च पञ्चेन्द्रियतिर्यग्योनयो CREAC - क Jain Education Inter For Private & Personal use only Daw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy