SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 9C आव.मल. उपोदाते अवधी % ॥७७॥ CA % A चक्षुर्दर्शनी अचक्षुर्दर्शनी अवधिदर्शनी च लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भाज्याः, गत्यादिउपयोगं प्रतीत्य पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, अवधिज्ञानस्य लब्धित्वाल्लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् , मार्गणाः केवलदर्शनी न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानको, देशदर्शनव्यवच्छेदेन केवलदर्शनभावात् , संयतद्वारे संयता असंवताः गा. ६० संयतासंयताः अवधिज्ञानस्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रपद्यमानकास्तु भाज्याः, उपयोगद्वारे साकारोपयोगे पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्त विवक्षितकाले भाज्याः, अनाकारोपयोगे तु पूर्वप्रतिपन्ना एव, न तु प्रतिपद्य|मानकाः, अनाकारोपयोगे लब्ध्युत्पत्तेरभावात् , आहारकद्वारे आहारकाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानका विवक्षितकाले भाज्याः, अनाहारकाश्चापान्तरालगतौ पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च विवक्षितकाले सम्भवन्ति, प्रति-12 पतितसम्यक्त्वानां तिर्यमनुष्येभ्यो देवनारकत्वेनोत्पद्यमानानामवधिज्ञानस्य प्रतिपत्तेरपि सम्भवात् , भाषकपरीत्तद्वारे प्राग्वत् , पर्याप्तद्वारे षड्भिः पर्यातिभिर्ये पर्याप्तास्ते पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानका विवक्षितकाले भाज्याः, अपर्याप्तका अपि षट्पर्याप्त्यपेक्षया करणापर्याप्तास्ते पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च सम्भवन्ति, सूक्ष्मादीनि द्वाराणि है द्रव्यप्रमाणादीनि च प्राग्वत्, उक्तमवधिज्ञानं, तच्चतुर्की, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतोऽवधि ॥७७॥ ज्ञानी जघन्यतोऽनन्तानि रूपिद्रध्याणि, उत्कर्षतः सर्वाण्यपि (रूपि) द्रव्याणि जानाति पश्यति, क्षेत्रतोऽवधिज्ञानी जघन्यतोऽकुलस्यासङ्ग्येयभागं उत्कर्षतोऽलोके लोकप्रमाणमात्राणि सङ्ख्यातीतानि खण्डानि, कालतो जघन्येनावलिकाया असङ्ख्येयं 4 k .%t.. Jain Education International For Private & Personal Use Only A w w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy