________________
भागमुत्कर्षतोऽसयेया उत्सर्पिण्यवसर्पिणीः, भावतो जघन्येनाप्यनन्तान् भावान् सर्वभावानामतन्तभागं जानाति पश्यति, | एष चावधिः ऋद्धिविशेषो गीयते, तत ऋद्धिप्रतिपादनावसरात् शेषर्धयोरपि वर्ण्यन्ते, ता एवाह
आमोसहि विप्पो सहि, खेलोसही जलमोसहि चेव । संभिन्नसोय उजुमह, सबोसहि चेव बोद्धवो ॥ ६९ ॥ चारणआसीवसा केवली य मणनाणिणो य पुवधरा । अरिहंत चक्कवट्टी वलदेवा वासुदेवा य ॥ ७० ॥ तत्र आमर्षणमामर्षः, संस्पर्शनमित्यर्थः, स एव औषधिर्यस्यासावामषौषधिः, करादिसंस्पर्शनमात्रादेव व्याध्यपनयन| समर्थो, लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामर्षौषधिर्लब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या, 'विप्पोसहि' इति, मूत्रस्थ पुरीषस्य वाऽवयवो विट् उच्यते, अन्ये त्वाहुः-विडिति विष्ठा प्रुइति प्रश्नवणं ते औषधिर्यस्यासौ तथा, खेल:| श्लेष्मा औषधिर्यस्य स तथा जल्लो-मलः स औषधिर्यस्य स तथा सुगन्धाश्चैते भवन्ति विडादयस्तलब्धिमतां, इयमत्र | भावना - इहामषपधिलब्धिः कस्यापि शरीरैकदेशे समुत्पद्यते, कस्यापि सर्वस्मिन् शरीरे, तेनात्मानं परं वा यदा व्याध्यपगमबुद्ध्या परामृशति तदा तदपगमो भवति, विडादिभिरपि तल्लब्धिमन्तो यदाऽऽत्मानं परं वा रोगापनयनबुद्ध्या परा - | मृशन्ति तदा तद्रोगापगमः, 'सम्भिन्नसोय' इति यः सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः, अथवा श्रोतांसि| इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयैर्यस्य स सम्भिन्नश्रोताः - एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् | योऽवगच्छति स सम्भिन्नश्रोता इत्यर्थः, अथवा श्रोतांसि - इन्द्रियाणि सम्भिन्नानि - परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वात् चक्षुरूपतामापन्नं, प्रक्षुरपि श्रोत्रकार्यकारित्वात् तद्रूपतामापन्नमित्येवं सम्भिन्नानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org