________________
गपरिगाहा, (वि.४०९-१०) तत्र गतिद्वारे चतुर्विधायामपि गतौ अवधिज्ञानस्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्य-5 मानकास्तु विवक्षितकाले भाज्याः, इन्द्रियद्वारे एकद्वित्रिचतुरिन्द्रियेषु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, पञ्चेन्द्रियेषु पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भाज्याः, कायद्वारे पृथ्व्यप्तेजोवायुवनस्पतिषूभयाभावः, सकायेषु पञ्चेन्द्रियवत्, योगद्वारे त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवत्, मनोरहितवाग्योगिषु केवलकाययोगेषु चोभयाभावः, वेदद्वारे त्रिष्वपि वेदेषु पञ्चेन्द्रियवत् , अवेदकेषु उभयमपि भाव्यम् , एवं कषायद्वारेऽपि, लेश्याद्वारे उपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवत्, आद्यासु तिसृषु पूर्वप्रतिपन्नाः सन्ति, नत्वितरे, सम्यक्त्वद्वारे निश्चयव्यवहाराम्यां विचारः, तत्र व्यवहारनयमतेन मिथ्यादृष्टिः सम्यग्दृष्टिश्चावधिज्ञानस्य प्रतिपत्ता, पूर्वप्रतिपन्नस्तु सम्यग्दृष्टिरेव, निश्चयनयमतेन प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चावधिज्ञानस्य सम्यग्दृष्टिरेवेति, ज्ञानद्वारे व्यवहारनयमतेन ज्ञानी वा प्रतिपद्यमानको भवत्यज्ञानी वा, यदि ज्ञानी तत आभिनिबोषिकज्ञानी श्रुतज्ञानी मनःपर्यायज्ञानी, अज्ञानी मत्यज्ञानी श्रुताज्ञानी विभङ्गज्ञानी वा, पूर्वप्रतिपन्नाः पुन निन एव, ते च मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यायज्ञानिनश्च, केवलज्ञानी पुनरवधिज्ञानस्य न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, समूलघातं देशज्ञानघाते केवलज्ञानसम्भवात् , निश्चयनयमतेन प्रतिपद्यमानकाः पूर्वप्रतिपन्नाश्च नियमतो ज्ञानिन एव, तत्र मतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि सम्भवंति, केवलज्ञानिनामुभयाभावः, देशज्ञानानां व्यवच्छेदे केवलज्ञानसद्भावात् , मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्यादिज्ञानभावात् , क्रियाकालनिष्ठाकालयोरैक्यात् , दर्शनद्वारे
Jain Education inte
For Private & Personal use only
Ovw.jainelibrary.org