________________
Jain Education Intera
ओयइ जमसंतयदिसो अंतोऽवि ठिओ न सबत्तो ॥ १॥" (वि. ७६८) शेषास्तिर्यङ्नरा देशेन - एकदेशेन पश्यन्ति, 'सर्वे वाक्यं | सावधारणमिष्टितश्चावधारणविधि' रिति एवमवधारणीयः- शेषा एव देशतः पश्यन्ति, नतु शेषा देशतः एव, तिर्यङ्नराणां | देशतः सर्वतश्च यथायोगमवधिना दर्शनात् उक्तं च - "सेसे च्चिय देसेणं, न उ देसेणेव सेसया किं तु । देसेण सवओsवि य पेच्छंति नरा तिरिक्खा य ॥ १॥” (वि.७७१) अथवाऽन्यथा व्याख्यायते - नैरयिकदेवतीर्थङ्करा एवावधेरबाह्या भवन्ति, | किमुक्तं भवति ? - नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीति भावः एवं चाभिहिते सति संशयः - किं ते देशेन पश्यन्ति उत सर्वतः, ततः संशयापनोदार्थमाह — पश्यन्ति सर्वतः खलु सर्वत एव तेनावधिना नैरयिकादयो, नतु देशतः, अत्र पर आह- ननु पश्यन्ति सर्वतः खल्वित्येतावदेव । स्तामवधेरवाह्या भवन्तीत्येतन्न युक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, नियतावधित्वं च देवनारकाणां 'दोहं भवपच्चइयं, तंजहा -देवाणं नेरइयाणं चे 'ति वचनसामर्थ्यात्सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वागमस्यातिप्रसिद्धत्वात्, उच्यते-इह यद्यपि 'दोन्हं भवपञ्चइयं' इत्यादिवचनतो नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमवधेरवाह्या भवन्तीत्युक्तम्, आह— यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छद्मस्थकालस्यैव तेषां विवक्षणात् शेषं प्राग्वत् ॥ गतं देशद्वारम् । इदानीं क्षेत्रद्वारं विवरीषुराह
संखेज्जमसंखेज्जो, पुरिसमबाहाए खेत्तओ ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ ६७ ॥ इह कश्चित् क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमित्र सम्बद्धो - लग्नो भवति, जीवावष्टन्धक्षेत्रादारभ्य निर
For Private & Personal Use Only
lainelibrary.org