________________
न्यतो वर्णगन्धरसस्पर्शलक्षणांश्चतुरः पर्यायानेकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालादीन् बहूनिति, उक्तं च- "एगं दबं पेच्छं खंधमणुं वा स पज्जवे तस्सः । उक्कोसमसंखिज्जे, संखिजे पेच्छई कोइ ॥ १ ॥ दो पज्जवे दुगुणिए, सबजद्दण्णेण पेच्छए ते य । वण्णाइया व चउरो नाणंते पेच्छइ कयाइ ॥२॥” (वि.७६१-२) अनन्तांश्च पर्यायानुत्कर्षतोऽपि न प्रेक्षते एकद्रव्यगतान्, अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव, यत उक्तं नन्द्यध्ययने- "भावतो णं ओहिणाणी अणंते भावे | जाणइ पासइ" इत्यादि ॥ गतं सप्रसङ्गं उत्पादप्रतिपातद्वारम्, इदानीं ज्ञानदर्शनविभङ्गलक्षणं द्वारत्रयं युगपदभिधित्सुराह - सागारमणागारा, ओहि - विभंगा जहण्णया तुल्ला । उवरिमगेवेळेसु (उ) परेण ओही असंखेज्जो ॥ ६५ ॥
योऽवधिर्विशेषग्राहकः स साकारः, स च सम्यग्दृष्टेः ज्ञानमित्यभिधीयते स एव मिथ्यादृष्टेर्विभङ्गः, यः पुनः सामान्य ग्राहकोऽवधिः विभङ्गो वा सोऽनाकारः, स च दर्शनं, तत्र साकारानाकाराववधिविभङ्गौ जघन्यकादारम्य तुल्यौ लोकपुरुषग्रीवाभवानि ग्रैवेयकानि उपरिमाणि च तानि ग्रैवेयकाणि च उपरिमत्रैवेयकाणि तेषु यावत् तुशब्दो विशेष णार्थ:, स चैतद्विशिनष्टि - नारकभवनपतिदेवेभ्य आरम्य तिर्यमनुष्यवर्जमुपरिग्रैवेयकेषु यावत् साकारानाकाराववधिविभङ्गौ क्षेत्रकालविषयावधिमधिकृत्य जघन्यादारभ्य तुल्यस्थितिकत्वेन तुल्याविति, इयमत्र भावना - नारका भवनपत्या| दयश्च उपरितनयैवेयकविमानवासिपर्यन्ता देवा ये ये जघन्यतुल्यस्थितयो मध्यमतुल्यस्थितयो उत्कृष्टतुल्यस्थितयो वा तेषां तेषामवधिविभङ्गज्ञानदर्शने क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये, न तु द्रव्यभावविषयौ तावङ्गीकृत्य, | तुल्यस्थितिकानामपि सम्यग्दर्शनं विशुद्धतपः कर्मादिकं च प्राग्भवगतं कारणं प्रतीत्यातिदरं तल्यत्वाभावात. 'परेण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org