SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आव.मल. उपोद्घाते अवधी ॥ ७३ ॥ लग्गइ विज्झाइ समयमन्नत्तो । तह कोइ ओहिदेसो से जायइ नासए बिड़ओ ||२||” (वि. ७५०-१) द्वितीयगाथाव्याख्याइह द्रटुर्यः सर्वतः सम्बद्धः प्रदीपस्य प्रभानिकरवत् सोऽभ्यन्तरावधिस्तस्य - अभ्यन्तरस्याभ्यन्तराव धेर्लब्धिरम्यन्तरलब्धि| स्तस्यां सत्यां, अभ्यन्तरावधिप्राप्तावित्यर्थः, उक्तं च चूर्णो - " तत्थ अब्भंतरलद्धी नाम जत्थ से ठियस्स ओहिनाणं समुप्पण्णं तत्थ ठाणातो आरम्भ ओहिनाणी निरंतरं संबद्धं संखेज्जमसंखेज्जं वा खेत्तं ओहिणा जाणइ पासइ, एस अभितरलद्धित्ति” तदुभयम् - उत्पादप्रतिपातरूपमुभयं नास्ति एकसमयेन, द्रव्यादौ विषये इत्यनुवर्त्तते, किं तर्हि ?, उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्द एवकारार्थः, स च भिन्नक्रमस्तथैव च योजितः, अयमिह भावार्थ:- प्रदीपस्येवोत्पाद एव वा प्रतिपात एव वा एकसमयेनाभ्यन्तरावधे रुपजायते, न तूभयमदेशावधित्वात्, न ह्येकस्य एकपर्यायोत्पादव्ययौ युगपद्भवितुमर्हतः, परस्परं विरोधात्, आह च- "उप्पाओ विगमो वा, दीवस्स व तस्स नोभयं समयं । न भवण - नासा समयं वत्थुस्स जमेगधम्मेणं ॥ १ ॥” (वि. ७५४ ) उक्तं प्रतिपातोत्पादद्वारम् । सम्प्रति यदुक्तं - "संखेज्ज मणोदवे भागो लोगपलियस्स' इत्यादि, तत्र किल द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं प्रसङ्गत एवोत्पादप्रतिपाताधिकारे द्रव्यपर्याययोः परस्परमुपनिबन्धं प्रतिपादयन्नाह - दवाओ असंखेज्जे, संखेने यावि पज्जवे लहइ । दो पज्जवे दुगुणिए, लहह य एगाउ दवाओ ॥ ६४ ॥ परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी द्रव्यात् सकाशात् तत्पर्यायानुत्कर्षतोऽसवेयान् सत्यांश्चापि मध्यमतो 'लभते' प्राघोति, पश्यतीति तात्पर्यार्थः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणिती एकस्माद्रव्याल्लभते, किमुक्तं भवति - सामा Jain Education International For Private & Personal Use Only उत्पाद • पाती गा. ६२-३ ॥ ७३ ॥ wwww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy