________________
आव. मल. उपोद्घाते अवधौ
॥ ७२ ॥
Jain Education Inter
स्पर्द्धकाणं प्रागुक्तस्वरूपाणि तानि चैकजीवस्य सत्येयान्यसज्ञेयान्यपि भवन्ति, तत्र एकस्पर्द्धकोपयोगे सति नियमात् सर्वत्र सर्वेषु स्पर्द्धकेषूपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवत्, द्वितीयगाथाव्याख्या - एतानि च स्पर्द्धकानि त्रिविधानि भवन्ति, तद्यथा - अनुगमनशीलान्यानुगामिकानि-यत्र प्रदेशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीति भावः, एतद्विपरीतानि अनानुगामिकानि, आनुगामिकानानुगामिकरूपोभयस्वरूपाणि मिश्राणि कानिचिद्देशान्तरानुयायीनि कानिचिन्नेति भावः, एतानि च पुनः प्रत्येकं त्रिधा भवन्ति, तद्यथा - प्रतिपतनशीलानि प्रतिपातीनि कियन्तमपि कालं स्थित्वा ततो ध्वंसगमनस्वभावानीति भावः, तद्विपरीतान्यप्रतिपातीनि, आमरणांत भावीनीत्यर्थः, प्रतिपाताप्रतिपातस्वभावानि मिश्राणि कानिचित् प्रतिपातीनि कानिचिनेत्यर्थः, एतानि च स्पर्द्धकानि मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देवनारकावधौ, पर आह-ननु तीव्रमन्दद्वारे प्रस्तुते स्पर्द्धकावधिस्वरूपं प्रतिपादयतः कथं न प्रक्रमविरोधः, उच्यते, इह प्राय आनुगामिकाप्रतिपातीनि स्पर्द्धकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अनानुगामिप्रतिपातीनि त्वविशुद्धत्वान्मन्दानि, मिश्राणि मध्यमानि, ततस्तीत्रमन्दद्वारमित्यदोषः, अपरस्त्वाह-आनुगामिकाप्रतिपातिस्पर्द्धकयोः परस्परं कः प्रतिविशेषः ? को वा अनानुगामिकप्रतिपातिस्पर्द्धकयोः, उच्यते - अत्राप्रतिपातिस्पर्द्धक मानुगामिकमेव भवति, आनुगामिकं तु प्रतिपात्यप्रतिपाति चेति विशेषः, तथा प्रतिपाति प्रतिपतत्येव पतितमपि च देशान्तरे गतस्य कदाचिज्जायते, न चेत्थमनानुगामिकमित्यनानुगामिकप्रतिपातिनोर्विशेषः, उकं तीव्रमन्दद्वारम् ६ । इदानीं प्रतिपातोत्पातद्वारं विवृण्वन् गाथाद्वयमाह -
For Private & Personal Use Only
तीत्रमन्दे स्पर्धकान
गा. ६०-१
॥ ७२ ॥
w.jainelibrary.org