________________
वन्यस्य वृद्धिा, तथा एकस्य हानावेवापरस्य हानि:, नत्वेकस्य वृद्धावपरस्य हानिः, अन्यच्च-एकस्य द्रव्यादेर्भागेन वृद्धी हानौवाजायमानायामपरस्यापि प्रायो भागेनैव वृद्धिहानी, न तु गुणकारेण, गुणकारेणाप्येकस्य गुणवृद्धिहान्योःप्रवर्त्तमानयोरपरस्यापि प्रायो गुणकारेणैव ते प्रवर्तेते,न तु भागेन, यत उक्तं-"वुड्ढीए चिय वुड्ढी,हाणी हाणी' न उ विवज्जासो। भागे भागो गुणणे, गुणो य दवाइसंजोए" ॥५॥ (वि.७३३) आह-ननु क्षेत्रस्यासवेयभागादिवृद्धौ तदाघेयद्रव्याणामपि तन्निबन्धनत्वादसङ्क्वेयभागादिवृद्धिः प्रामोतीति, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामप्यनन्तभागादिवृद्धिरेव प्राप्नोति,न पट्स्थानकं, पर्यायाणां द्रव्यनिवन्धनत्वाद्, उच्यते, इह यद्यपि नाम स्वरूपेण क्षेत्रानुवर्तिनः पुद्गलाः पुद्गलानुवर्तिनश्च पर्यायास्तथापि यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसजवायन्ते पुद्गलानुवृत्त्या च तत्पर्यायास्तदा क्षेत्रस्यासवेयादिभागवृद्धिहान्योर्द्रव्यस्यापि तदनुवृत्त्या तथैव वृद्धिहानी प्रामुतो, द्रव्यस्यापि चानन्तभागादिवृद्धिहान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धिहानी, यदा तु स्वक्षेत्रादनन्तगुणाः पुद्गलाः पुद्गलेभ्योऽपि तत्पर्याया अनन्तगुणाः, अवधिश्च क्षयोपशमाधीनः, क्षयोपशमश्च तत्तद्रव्यादिसामग्रीवशाद्विचित्रपरिणामः, केवलतेजसा च भगवतैवस्वरूप एषोपलब्धस्तदा यथोक्तस्वरूपे एव वृद्धिहानी प्रतिपत्तव्ये ५।नान्यथेति न कश्चिद्दोषः, उकं चलद्वारमिदानीं तीव्रमन्दद्वारमभिषित्सुराह- फड्डाय असंखेना, संखेने यावि एगजीवस्स । एगप्फड्डवओगे, नियमा सवत्थ ज्वउत्तो ॥६॥ .. फडाय आणुगामी, अणाणुगामी य मीसया येव । पडिवाइ अपडिवाई, मीसा य मणुस्सतेरिच्छे ॥६॥
-%AARE
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org