________________
आव.मल. उपोद्धाते अवधौ
॥७१॥
तगुणहानिः ४ असङ्ख्यातगुणहानिः ५ अनन्तगुणहानिः ६, एतयोश्च पविधवृद्धिहान्योर्मध्यादवधिविषयभूतक्षेत्रकालयो- लन्ध्यकरायंतभेदद्वयवर्जिता चतुर्विधा वृद्धिहानि भवति, अनन्तभागवृद्धिरनन्तगुणवृद्धि तथा अनन्तभागहानिरनन्तगुण- स्थानं द्र. हानिर्वा क्षेत्रकालयोन सम्भवति, अवधिविषयभूतक्षेत्रकालयोरानन्त्याभावात् , इयमत्र भावना-यावत् क्षेत्रं प्रथममवधिना व्यादिवृप्रवर्द्धमानाख्येन दृष्टं ततः प्रतिसमयं स प्रवर्द्धमानोऽवधिः कश्चिदसङ्ख्यातभागवृद्धं पश्यति कोऽपि सङ्ख्यातभागवृद्धं कोऽपि स्यादिवा सङ्ख्यातगुणवृद्धमपरोऽसङ्ख्यातगुणवृद्धं, तथा यावत् क्षेत्रं प्रथममवधिना हीयमानेन दृष्टं ततः प्रतिसमयमसङ्ख्यातभा-| गा.५८-९ गहीनं कश्चित्पश्यति कश्चित्सङ्ख्यातभागहीनं कोऽपि सङ्ख्यातगुणहीनमन्योऽसङ्ग्यातगुणहीनं, एवं क्षेत्रस्य वृद्धिर्हानिर्वा चतुर्विधा भवति, इत्थं कालेऽपि वृद्धिहान्योश्चातुर्विध्य भावनीयम्, द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिहोनिर्वा | भवति, तथाहि-यावन्ति द्रव्याणि प्रथममवधिना दृष्टानि ततः परं कोऽपि तेभ्योऽनन्तभागाधिकानि पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धानि, नत्वसङ्ख्यातभागादिना वृद्धानि, तथास्वाभाव्यात्, तथा ततः परं कोऽपि पूर्वोपलब्धेभ्योऽनन्त|भागहीनानि द्रव्याणि पश्यति, अपरस्त्वनन्तगुणहीनानि, नत्वसङ्ख्यातभागादिना हीनानि, तथास्वाभाव्यादेव, पर्यायेषु पुनः पूर्वोक्ता षड्डिधाऽपि वृद्धिर्हानिर्वा भवति, उक्तं च-"पइसमयमसंखिजइभागहियं कोइ संखभागहियं । अन्नो| संखेजगुणं खित्तमसंखिजगुणमण्णो ॥२॥ पेच्छइ विवडमाणं, हायंतं वा तहेव कालंमि । नाणंतवुद्धि-हाणी पेच्छा जं दोऽवि नाणंते ॥३॥दधमणंतसहियं अणंतगुणवुड्डियं च पेच्छेजा। हायंतं वा भावम्मि, छबिहा वुड्डि-हाणीओ" ॥॥ वि.७३०-२) एतेषां च द्रव्यक्षेत्रकालभावानां परस्परं संयोगे चिन्त्यमाने एकस्य वृद्धावेवापरस्य वृद्धिः, नत्वेकस्य हाना
Jain Education International
For Private & Personal use only
www.jainelibrary.org