SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern होइ । दवगुणपज्जवेसुं तह पत्तेयंपि नायवं ॥ ५ ॥ (वि. ७२२-३ ) ” अथ लब्धिमधिकृत्यावस्थानकालमानमाह - अद्धाऍ अवद्वाणं, छावट्ठि सागरा उ कालेणं । उक्कोसगं तु एयं, एक्को समओ जहन्त्रेणं ॥ ५८ ॥ इह अद्धा नामावधिज्ञानावरणक्षयोपशमरूपा लब्धिरभिप्रेता, ततो अद्धाया- लब्धेः कालेन - कालतोऽवधेरवस्थानं, तत्रान्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्यानुपयुक्तस्य वा भवति षट्षष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वान्मनागधिकानि उक्तं च- " सा सागरोवमाई, छावट्ठि होज्ज साइरेगाईं । विजयाइसु दो वारे गयस्स नरजम्मणा समयं ॥ ७ ॥ (वि. ७२५ ) उपसंहारमाह- 'उक्कोसग' मित्यादि, कालतोऽवस्थानमिदमाधारादिषु उत्कर्षतः प्रतिपादितमवसातव्यम् । जघन्येन - जघन्यतः पुनरुपयोगलब्धी अङ्गीकृत्यावस्थानं द्रव्यादावप्येकः समयः, तत्र नरतिरश्चां समयादूर्ध्वमवधेः प्रतिपातादनुपयोगाद्वा एकसमयावस्थानता विज्ञेया, देवनारकाणां तु येषां भवस्य चरमसमये सम्यक्त्व - | लाभाद्विभङ्गज्ञानमवधिज्ञानरूपतया परिणमति ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते तेषामवसातव्यम् । तदेवमुक्तमवस्थितद्वारम् ४ । अधुना चलद्वारमभिधित्सुराह बुड्ढी वा हाणी वा, चउद्दिहा होह खेत्त-कालाणं । दद्देसु होइ दुविहा, छविह पुण पज्जवे होइ ॥ ५९ ॥ चलद्वारमिदमुच्यते, चलश्चावधिर्द्रव्यादिविषयमङ्गीकृत्य वर्द्धमानको हीयमानको वा भवति, वृद्धिहानी च प्रत्येकं सामान्येनागमे षड़िधे प्रोते, तद्यथा - अनन्तभागवृद्धिः १ असङ्ख्यात भागवृद्धिः २ सङ्ख्यात भागवृद्धिः ३ सङ्ख्यातगुणवृद्धिः ४ असातगुणवृद्धिः ५ अनन्तगुणवृद्धिः ६ तथा अनन्तभागहानिः १ असङ्ख्यात भागहानिः २ सङ्ख्यात भागहानिः ३ सङ्ख्या For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy