SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आव. मल. उपोद्घाते अवधौ ॥ ७० ॥ Jain Education Internat अवस्थितिः अवस्थानम्, अवधेराधाररूपतालक्षणेन पर्यायेण क्षेत्रस्यावस्थानं, कालेन -कालमाश्रित्य सागरोपमाणि तुशब्द एवकारार्थः स चावधारणे भिन्नक्रमश्च त्रयस्त्रिंशतमेव, इयमत्र भावना-अनुत्तरसुरा यत्र क्षेत्रे येष्वेव च प्रतिनियतेषु क्षेत्र प्रदेशेषु जन्मसमयेऽवगाढास्ते प्राय स्तत्रैवाभवक्षयमवतिष्ठन्ते ततः तानधिकृत्योत्कर्षतोऽवधेरवस्थानं त्रय - ख्रिशतं सागरोपमाणि यावदवाप्यते, उक्तं च- "आहारे उवओगे, लद्धीए वा हविज्जऽवत्थाणं । आहारो से खित्तं, तेत्तीसं सागरा तत्थ ॥१॥ विजयाइसूववाए जत्थोगाढो भवक्खयं (ओ वि०) जाव । खेत्तेऽवचिट्ठइ तहिं दबेसु य देहसयणेसु ॥२॥ (वि.७१९-२० ) ” उपयोगमधिकृत्यावधेरवस्थानं, द्रवति - गच्छति तांस्तान् पर्यायानिति द्रव्यं, बाहुलकात् कर्त्तरि प्रत्ययः, तस्मिन् द्रव्ये - द्रव्यविषये तत्र चान्यत्र क्षेत्रे भिन्नश्वासौ मुहूर्त्तश्च भिन्नमुहूर्त्तः, अन्तर्मुहूत्तं कालं यावदिति तात्पर्यार्थः, न परतः, सामर्थ्याभावात्, उक्तं च- “ दवे भिन्नमुहुत्तं, तत्थऽन्नत्थ व हवेज्ज खेत्तंमि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ ३ ॥ (वि. ७२१)” तथा तत्रैव द्रव्ये ये पर्यवाः - पर्यायधर्मास्तल्लाभे पर्यायान्तरं संचरतोऽवधेरुपयोगमधिकृत्यावस्थानं सप्ताष्टौ वा समयान् यावत्, न परतः, पर्यायाणां सूक्ष्मतया परतस्तद्विषयेऽवस्थाने सामर्थ्याभावात्, अन्ये तु व्याचक्षतेपर्यवा द्विविधाः, तद्यथा-गुणाः पर्यायाश्च तत्र सहवर्त्तिनो गुणाः शुक्लत्वादयः, क्रमवर्त्तिनः पर्यायाः नवपुराणादयः, तत्र गुणाः स्थूलाः पर्यायास्तु सूक्ष्माः, यथा २ च सूक्ष्मं वस्तु तथा २ उपयोगस्य स्तोककालता, द्रव्यगुणपर्यायाश्च यथोत्तरं सूक्ष्मास्ततो गुणेष्वष्टौ समयान् यावदुपयोगस्यावस्थानं, पर्यायेषु तु सप्त समयानिति, उक्तं ध-" दवे तत्थेव गुणा, संचरओ सत वटु वा समया । अण्णे पुण अटूठ गुणे भणति तप्पज्जवे सत्त ॥ ४ ॥ जह जह सुहुमं वत्युं तह तह थोवोवओगया For Private & Personal Use Only अवस्थानम् गा. ५७ ॥ ७० ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy