SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ % 4 अन्तमध्यगतव्याख्या आवमट गयमंतगयंति भण्णइ" इति, एष द्वितीयोऽर्थस्तृतीयः पुनरयं-एकदिग्भाविना तेनावधिना यद्योतितं क्षेत्रं तस्यान्ते पोद्भाते हैं। वर्तते सोऽवधिः, अवधिज्ञानवतस्तदन्ते वर्तमानत्वात् , ततोऽन्ते एकदिग्गतस्यावधिविषयस्य पर्यन्ते गतः-स्थितोऽन्तगतः, अवधौ | अन्तगतश्चावधिस्त्रिधा, तद्यथा-पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतश्च, तत्र यथा कश्चित् पुरुषो हस्तगृहीतया दीपिकया पुरतःप्रेर्यमाणया पुरत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि पश्यति, नान्यत्र, सोऽवधिः पुरतोऽन्तगत इत्यभिधीयते, तथा स एव पुरुषो यथा पृष्ठतो हस्तेन ध्रियमाणया दीपिकया पृष्ठत एव पश्यत्येवं येनावधिना पृष्ठत एव सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि पश्यति सः पृष्ठतोऽन्तगतः, येन पुनः पार्श्वत एकतो द्वाभ्यां वा सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगतः, उक्तं च नन्द्यध्ययने-"पुरतोऽन्तगएणं ओहिणाणेणं पुरतो चेव संखेन्जाणि वा असंखेजाणि वा जोयणाई जाणइ पासइ, मग्गतोऽन्तगएणं ओहिणाणेणं मग्गतो चेव संखेन्जाणि वा असंखेजाणि वा" इत्यादि, मध्यगत इत्यत्रापि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादेरिव, तत्रात्मप्रदेशानां मध्ये-मध्यवर्तिष्वात्मप्रदेशेषु गत:-स्थितो मध्यगतः, अयं च स्पर्द्धकरूपः सर्वदिगुपलम्भकारणं मध्यवर्तिनामात्मप्रदेशानामवधिरवसातव्यः, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धेः, तन्मध्ये गतो मध्यगतः, उक्तं च नन्धध्ययनचूर्णी-“ओरालियसरीरमझें फड्डगविसुद्धीतो सबायप्पएसविसुद्धीतो वा सबदिसोवलंभत्तणतो मज्झगतोत्ति भण्णई' त्ति, अथवा तेनावधिनायदुद्योतितं है क्षेत्रं सर्वासु दिक्षु तस्य मध्यभागे स्थितो मध्यगतः, अवधिज्ञानिनस्तदुद्योतितक्षेत्रमध्यवर्चित्वात्, आह च नन्द्यध्ययन ARRORAKAASA ॥१९॥ Jain Education International For Private & Personal use only "www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy