________________
मध्यगतः, अथान्तगत इति कः शब्दार्थः१, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयम्, अन्ते-आत्मप्रदेशानां पर्यन्ते गत:स्थितोऽन्तगतः, कात्र भावनेति चेत्, उच्यते-इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नाम अवधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह भाष्यकृत्स्वोपज्ञभाग्यटीकायां-"स्पर्द्धकमवधिविच्छेदकविशेष" इति, तानि च एकजीवस्यासङ्ख्येयानि सङ्ख्येयानि वा भवन्ति, यद्वश्यति-फड्डा य असंखेजा संखेजे यावि एगजीवस्स' (वि. ७३८) इति, तानि च विचित्ररूपाणि कानिचित्पर्यन्तवचिषु आत्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिन्मध्यवर्तिध्वात्मप्रदेशेषु, तत्र यः पर्यन्तवर्तिवात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थित इतिकृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवर्चिभिरात्मप्रदेशैः साक्षादवबोधात्, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कयाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपकमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेsपि औदारिकशरीरान्ते कयाचिदेकया दिशा यशादुपलभते सोऽप्यन्तगतः, आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैव क्षयोपशमसम्भवात् , विचित्रो हि देशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीति, तथा चोक्तं नन्द्यध्ययनचूौँ “ओरालियसरीरंते ठियं-गति एगटुं, तं च आयप्पएसफड्डगावहिएगदिसोपलंभाओ य अंतगयमोहिनाणं भन्नइ, अहवा सवायप्पएसेसु विसुद्धेसुधि ओरालियसरीरगंण एगदिसि पासेण
Jain Education Internet
For Private & Personal use only
D
ainelibrary.org