SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आव. मल. उपोद्घाते अवध ॥ ६८ ॥ Jain Education Intera समोऽविय, पडहो हिट्ठोवरिं पईओ सो । धम्मावणद्धविच्छिण्णवलयरूवा य झल्लरिया ॥३॥ उड्ढायओ मुइंगो, हेडा रुंदो तहोवरिं तणुओ। पुप्फसिहावलिरइया, चंगेरी पुष्पचंगेरी ॥ ४ ॥ जवनालउत्ति भणिओ, उन्भो सरकंचुओ कुमारीए । | अह सबकालनियओ कायाइक्कोऽवि सेसाणं ॥ ५ ॥” इति, (वि. ७०८-११) यवनालकाकारोऽवधिरनुत्तरसुराणां । एष च नारकादीनामनुत्तरसुरपर्यन्तानामेतदाकारः सर्वकालनियतः प्रत्येतव्यः । 'तिरियमणुपसु' इत्यादि, तिर्यञ्चश्च मनुष्याश्च तिर्यङ्मनुष्यास्तेषु अवधिर्नानाविधं संस्थितं संस्थानं यस्य स नानाविधसंस्थितः, स्वयम्भूरमणजलनिधिवासिमत्स्यगण - वत्, अपि-तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं तिर्यङ्मनुष्यावधेस्तु तदपि भवति, उक्तं च- " नाणागारो तिरियमणुएस मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं, तस्सिह पुण तंपि होज्जा हि ॥ ६ ॥ (वि.७१२ ) ” भणितः - प्रतिपादितस्तीर्थकरगणधरैः, अनेन च संस्थानप्रतिपादनेनेदमावेदितम् - भवनपतिव्यन्तराणामूर्ध्व प्रभूतोऽवधिर्वैमानि - कानामधः ज्योतिष्कनारकाणां तिर्यग विचित्रो नरतिरश्चाम्, आह च भाष्यकृत् - "भवणवइ-वंतराणं उड़ढं बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ ७ ॥" (वि.७१३) उक्तं संस्थानद्वारम् २ । सम्प्रति सप्रतिपक्षमानुगामिकद्वारार्थ प्रचिकटविषयेदमाह अणुगामिओ य ओही, नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्सतेरिच्छे ॥ ५६ ॥ गच्छन्तं पुरुषमासमन्तात् अनुगच्छतीत्येवंशीलः अनुगामी अनुगाम्येवानुगामिकः, स्वार्थे कप्रत्ययः, यदिवा अनुगमः प्रयोजनमस्येत्यानुगामिकः, अनुशतिकादिपाठाभ्युपगमादुभयपदवृद्धिः, आनुगामिकश्वावधिर्द्विधा, तद्यथा - अन्तगतो For Private & Personal Use Only संस्थानमानुगामुकं च. गा. ५५-६ ॥ ६८ ॥ ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy