SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Jain Education International इह उत्तरार्द्धे तिर्यग्मनुष्याणामवधेर्नानाविधसंस्थानभणनात् पूर्वार्द्धन संस्थानप्रतिपादनं यथाक्रमं नारकभवन| पतिव्यन्तरज्योतिष्ककल्पोपपन्नकल्पातीत मैवेयकानुत्तरसुराणामवधेरवसातव्यम्, तथा च पूर्वार्द्धप्रतिपादितसंस्थानविषयं भाष्यम् - "नेरइय-भवण-वणयर जोइस कप्पालयाणमोहिस्स । गेविज्जणुत्तराणन्य होंतागिइओ जहासंखं ॥१॥” (वि. ७०७) तम्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स च आयतख्यस्रश्च भवति, तस्येवाकारो यस्यासौ तप्राकारोऽवधिर्नारकाणां 'पल्लग'त्ति पलको नाम लाटदेशे धान्याधारविशेषः, स च ऊर्ध्वायत उपरि च किञ्चित्सङ्गितः, आकारशब्दः प्रत्येकमभिसम्बध्यते, पल्लकस्येवाकारो यस्यासौ पल्लकाकारो भवनपतीनां, पटहः - आतोद्य| विशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः, पटह एव पटहकस्तदाकारोऽवधिर्व्यन्तराणाम्, तथा उभयतो विस्तीर्णा | चर्मावनद्धमुखा मध्ये सङ्क्षिप्ता ढक्काकारा झल्लरी- आतोद्यविशेषरूपा तदाकारोऽवधिर्ज्योतिष्कदेवानां मृदङ्गो-वाद्यविशेषः, स चाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतस्तदाकारोऽवधिः सौधर्मादिदेवानाम च्युतदेवपर्यन्तानां, 'पुप्फ'ति | पदैकदेशे पदसमुदायोपचारात् सप्रशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिर्यैवेयकविमाननिवासि - देवानां, 'जव' इति अत्रापि पदैकदेशे पदसमुदायोपचारात् यवनालक इति द्रष्टव्यम्, यवनालको नाम कन्याचोलकः, स च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो भवति येन परिधानं न खसति, कन्यानां चैष | मस्तकप्रदेशेन प्रक्षिप्यते, अत एवायमूर्ध्वः सरकञ्चुक इति व्यपदिश्यते, तथा च तप्रादिव्याख्यानं कुर्वन्नाह भाष्यकृत्"तप्पेण समागारो तप्यागारो स चाययत्संसो । उड्ढायओ य पल्लो, उवरिं च स किंचि संखित्तो ॥ २ ॥ नच्चायओ For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy