SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आव. मल. उपोद्घाते अवधी ॥ ६७ ॥ इह द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु, तथा मनुष्याश्च तिर्यश्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र प्रतिपातिष्ववधिषु मध्ये उत्कृष्टोऽवधिः प्रतिपतितुं शीलमस्येति प्रतिपाती लोकमात्र एव, मात्रशब्दोऽलोकव्यवच्छेदार्थः, इदमन्त्र हृदयम्-| यद्यवधिः प्रतिपतति तत उत्कर्षतो लोकमात्र एव, न लोकात् परं प्रदेशमात्रमपि पश्यन्, तथा चाह- 'परं अपडिवाई' | ततो लोकात् परमेकमध्याकाशप्रदेशं पश्यन् नियमाद् अप्रतिपाती, क्षेत्रपरिमाणद्वारे प्रस्तुते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदुष्टमेव, विनेयजनप्रतिपत्तिलाघवात्, उक्तं क्षेत्रपरिमाणद्वारम् १ ॥ अधुना संस्थानद्वारमभिधित्सुराहथिबुगागार जहणो, बट्टो उक्कोसमायतो किंचि । अजहण्णमणुक्कोसो य, खेत्ततोऽणेगसंठाणो ॥ ५४ ॥ स्तिबुकः- उदबिन्दुस्तस्येवाकारो यस्यासौ स्तिबुकाकारो जघन्यावधिः, तमेव स्पष्टयति-वृत्तः सर्वतो वृत्त इति भावः, पनकक्षेत्रस्य वर्त्तुलत्वाद्, उत्कृष्टः - परमावधिः, आयतः - प्रदीर्घः, किञ्चित् - मनाक् वह्निजीव सूच्या अवधिमच्छरीरस्य सर्वतो भ्राम्यमाणया व्याप्यमानस्य क्षेत्रस्य एतदाकारभावात् उक्तं च- " पणको थिबुगागारो, तेण जहन्नावही तदागारो । | इयरो सेढिपरिक्खेन तो सदेहाणुवत्तीए ॥१॥” (वि.७०४) तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्टः, चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, 'क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेक संस्थानः, एवं तावज्जघन्योत्कृष्टावधिसंस्थानमभिहितम् ॥ सम्प्रति विमध्यमावधिसंस्थानप्रतिपादनार्थमाहतप्पागारे पल्लग - पडहग-झल्लरि-मुइंग- पुप्फ-जवे । तिरिय-मणुएस ओही, नाणाविहसंठिओ भणिओ ॥५५॥ Jain Education International For Private & Personal Use Only उत्कृष्टोsप्रतिपाती गा. ५३ ॥ ६७ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy