SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मा. १२ Jain Education Interna " सवेयानि च तानि योजनानि च सवेययोजनानि, खलुशब्द एवकारार्थः स चावधारणे अस्य च उभयथा सम्बन्धं उपदर्शयिष्यामः, देवानामर्द्धसागरे पदैकदेशे पदसमुदायोपचारात् अर्द्धसागरोपमे न्यूने आयुषि सति, किमुक्तं भवति, १ - अर्द्धसागरोपमे न्यूने आयुषि सति देवानां सङ्ख्येययोजनान्येवावधिक्षेत्रं, तथा देवानां सङ्ख्वेययोजनान्यवधिक्षेत्रमर्द्धसागरोपमे न्यून एवायुषि सति, न परिपूर्णे नाप्यधिके इति, ततः परं सम्पूर्णार्द्धसागरोपमादावायुषि पुनरसोयानि योजनान्यवधिक्षेत्रमवसेयम् ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषाद्वक्ष्यमाणाद् भावनीयम् ॥ उक्तं उत्कृष्टमवधिक्षेत्रम्, अथ जघन्यमाह - 'जहण्णय' मित्यादि, जघन्यमवधिक्षेत्रमिति देवानामिति वर्त्तते, पञ्चविंशतिस्तुशब्दस्य | एवकारार्थत्वात् पञ्चविंशतिरेव योजनानि तानि च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामवसातव्यानि, 'पणवीस जोयणाई दसवाससहस्सिया ठिई जेसि' मिति वचनात् ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाज्जघन्यतोऽपि सङ्ख्ये - ययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रान् अवधिज्ञानतः पश्यन्ति, उत्कर्षतोऽपि सङ्ख्येययोजनप्रमितानेव सङ्ख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान् उक्तं च प्रज्ञापनायाम् - "जोइसिया णं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्नेणवि संखिज्जे दीवसमुद्दे उक्कोसेणवि संखिज्जे दीवसमुद्दे” भाष्यकारोऽप्याह - "दुविहोऽवि जोइ [सि]याणं, संखेज्जो ठिइविसेसेणं ।” (वि. ७०१ ) अत्र सङ्ख्येयः सङ्ख्येययोजनप्रमितसङ्ख्येयद्वीपसमुद्रविषयः स्थितेर्विशेषात् स्थिते| रसमयेयत्वादित्यर्थः ॥ अथ अयमेव चावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति तानुपदर्शयन्नाह“उक्कोसो मणुपसुं, मणुस्सतेरिच्छिपसु य जहण्णो । उक्कोस लोगमित्तो पडिवाइ परं अपडिवाई ॥ ५३ ॥” " For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy