________________
Jain Education International
ध्यमद्यैवेयकवि मानवासिनो देवाः षष्ठीं तमःप्रभाभिधानां पृथिवीं पश्यन्ति, सप्तमीं च पृथिवीं उपरितना- उपरितनयैवेयकविमानवासिनो देवाः पश्यन्ति तथा सम्भिन्नां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां लोकनाड चतुर्द्दशरजुप्रमाणां कन्याचोलक संस्थानामवधिना पश्यन्ति 'अनुत्तरा' अनुत्तर विमानवासिनो देवाः । एष क्षेत्रतो देवानां भवप्रत्ययावधेर्विषय उक्तः, एतदनुसारेण द्रव्यतः कालतो भावतश्चावसेयः, तदेवमधो वैमानिकावधेः क्षेत्रपरिमाणं प्रतिपादितम्, अधुना तिर्यगूर्ध्व च तत्प्रतिपादयन्नाह
"एएसिमसंखेज्जा, तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उहुंच सकप्पथूभाई ॥ ५१ ॥ एतेषां सौधर्मादिदेवानां सङ्ख्यायन्ते इति सङ्ख्येया न सङ्ख्येया असङ्ख्येया स्तिर्यक् द्वीपाश्च जम्बूद्वीपादयः सागराश्च लवणसागरादयः, क्षेत्रतोऽवृधिपरिच्छेद्यतया इति वाक्यशेषः, तदेव द्वीपसमुद्रासङ्ख्येयं बहुतरकं प्रभूततरं पश्यन्ति उपरिमा एव उपरिमकाः, उपर्युपरि देवलोकनिवासिनो देवा इत्यर्थः, उपर्युपरिदेवलोकनिवासिनां देवानां विशुद्धविशुद्धतरावधिज्ञानसद्भावात् तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत्, आदिशब्दात् ध्वजादिपरिग्रहः, क्षेत्रं सौधर्मादयो देवाः सर्वेऽपि पश्यन्ति, न परतः, तथा भवस्वाभाव्यात्, जघन्यतः पुनरमी सर्वेऽपि सौधर्मादयोऽनुत्तरविमानवासिपर्यन्ता अङ्गुलासङ्ख्य भागमात्रं क्षेत्रं पश्यन्ति, उक्तं च प्रज्ञापनायाम् - "सोहम्मगदेवा णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेठ्ठिले चरिमंते, तिरियं जाव असंखेज्जे दीवसमुद्दे, उहुं जाव सगाई विमाणाई ओहिणा जाणंति पासंति, एवं ईसाणगदेवावि, सणकुमार देवावि एवं चैव, नवरं 'अहे जाव दोच्चाए सकरप्पभाए पुढवीए हेहिले चरिमंते, एवं माहिंददेवावि, बंभलोगलंतगदेवा तच्चाए ।
For Private & Personal Use Only
www.jainelibrary.org