SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आवश्यके उपोद्घाते ।। ६५ ।। Jain Education Interlon "सक्कीसाणा पढमं, दोच्चं च सणकुमारमाहिंदा । तच्चं च बंभलंतग सुकसहस्सारग चउत्थिं ॥ ४८ ॥ आणपाणयकप्पे, देवा पासंति पंचमिं पुढविं । तं चेव आरणचुय ओहीणाणेण पासंति ॥ ४९ ॥ छट्टि हेट्टिममज्झिमगेविला सत्तमिं च उवरिल्ला । संभिन्नलोगनालिं, पासंति अणुत्तरा देवा ॥ ५० ॥ शक्रश्च ईशानश्च शक्रेशानी - सौधर्मेशान कल्पदेवेन्द्रौ प्रथमां रत्नप्रभाभिधानां पृथिवीं पश्यन्तीति क्रियां द्वितीयगाथायां वक्ष्यति, शक्रेशानग्रहणं चोपलक्षणं तेन सौधम्र्मेशान कल्पनिवासिनो देवाः सामानिकादयोऽपि परिगृह्यन्ते, तेषामध्यवधिना रलप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावद्दर्शनात्, द्वितीयां च पृथिवीमित्यग्रतः सम्बध्यते, सनत्कुमारमाहेन्द्रौ - तृतीयचतुर्थकल्प देवाधिपी, अत्रापीन्द्रग्रहणमुपलक्षणं तेन तत्कल्पनिवासिनः सामानिकादयोऽपि प्रतिपत्तव्याः, एवं तृतीयां च पृथिवीं ब्रह्मलोकलान्तक देवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः पश्यन्ति, शुक्रसहस्रार - | सुरेन्द्रोपलक्षितास्तत्कल्पनिवासिनश्चतुर्थी (थ) पृथिवीं पश्यन्ति । द्वितीयगाथाव्याख्या-आनतप्राणतकल्पे प्राकृतत्वाद्विभक्तिवचनव्यत्यय इति वचनात् द्वयोरर्थयोरेकवचनं, ततोऽयमर्थः- आनतप्राणतयोः कल्पयोर्देवाः पश्यन्ति पञ्चमीं पृथिवीं तामेव आरणाच्युतयोः कल्पयोर्देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदम्, नतु व्यवच्छेदकमवधिज्ञानस्यैवेह प्रस्तुततया व्यवच्छेद्याभावात्, नवरं तां विशुद्धतरां वहुपर्यायां चेति प्रतिपत्तव्यम्, उत्तरोत्तरदेवानां विमलतरावधिज्ञानसद्भावात् । तृतीयगाथाव्याख्या-लोकपुरुषग्रीवास्थाने भवानि वैवेयकानि विमानानि तानि च त्रिधा - अधस्त नग्रैवेयकानि मध्यमत्रैवेयकानि उपरितनमैवेयकानि च तत्राधस्तनमध्यमद्यैवेयका आधेये आधारोपचारात् अधस्तनम For Private & Personal Use Only वैमानिकानामवधिः गा. ४८४९-५० ॥ ६५ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy