________________
| क्षेत्रप्रमाणकारिणः प्रागभिहिता एवाग्निजीवाः, इदमुक्तं भवति - उत्कृष्टावघेर्विषयत्वेन क्षेत्रतो येऽसया लोकाः प्रोक्तास्ते प्रागभिहितस्वागवाहनाव्यवस्थापितोत्कृष्टासङ्ख्येय सूक्ष्मवादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति, ननु रूपगतं लभते सर्वमित्येतदनन्तरगाथायामर्थतोऽभिहितमेव ततः | किमर्थं पुनरत्राभिहितम् १, तदयुक्तम्, अत्रार्थे परिहारस्य प्रागेवोक्तत्वाद्, अथवा अनन्तरगाथायामेकप्रदेशावगाढमित्यादि * परमावधेः द्रव्यपरिमाणमुक्तम्, इह तु रूपगतं लभते सर्वमिति क्षेत्रकालयोर्विशेषणं तच्चैवम् - क्षेत्रकालद्वयं लोकमात्रासङ्ख्येयखण्डासयेयोत्सर्पिण्यवसर्पिणीलक्षणं यदि रूपिद्रव्यानुगतं भवति ततः समस्तं लभते, न केवलं, तस्यारूपित्वाद| वधिज्ञानस्य च रूपिद्रव्यनिबन्धनत्वात् इत्थंभूत परमावधिकलितश्च नियमादन्तर्मुहूर्त्तमात्रेण केवलालोक लक्ष्मीमासा| दयति, उक्तं च- 'परमोहिन्नाणविदो केवलमंतो मुहुत्तमेत्तेण' ( वि. ६८९) ॥ तदेवं मनुष्यानधिकृत्य क्षायोपशमिकः खल्वनेकप्रकारोऽवधिरुक्तः, सम्प्रति तिरश्वोऽधिकृत्य तं प्रतिपिपादयिषुराह -
Jain Education International
"आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोपणुकोसो ॥ ४६ ॥” आहारश्च तेजश्च आहारतेजसी तयोर्लाभः प्राप्तिः परिच्छित्तिरित्येकोऽर्थः आहारतेजोलाभः, सूत्रे च लम्भ इति निर्देशः प्राकृतत्वाद्, आहारते जो ग्रहणमुपलक्षणं, ततः यान्यौदारिकवैक्रियाहा र कतैजसद्रव्याणि यानि च तदन्तरालेषु | तदयोग्यानि तेषां सर्वेषामपि परिग्रहणं, उत्कर्षतस्तिर्यग्योनिषु, किमुक्तं भवति । तैर्यग्योनिकसत्त्वाधारो योऽवधिः स उत्क र्षत औदारिकवैक्रिया हारकतेजोद्रव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यतीति, उक्तं च- 'ओरालियवेडबिय आहार
For Private & Personal Use Only
www.jainelibrary.org