________________
आवश्यके उपोद्धाते
॥६३॥
पश्यति, चिन्तनीयं तु घटादिकं रथूरमपि न पश्यति, तत एवं विज्ञानविषयवैचित्र्यसम्भवे सति संशयव्यवच्छेदार्थमेक-परमावधेप्रदेशावगाढग्रहणे सत्यपि शेषविशेषणोपादानमदुष्टमेव, यदप्युक्तम्-अथवा एकप्रदेशावगाढमित्यपि न वक्तव्यमित्यादि.विषयःगा. तयश्लीलं. तस्यैव वक्ष्यमाणस्य प्रपञ्चायास्य प्रवृत्तत्वात् , लभते रूपगतं सर्व, यत एकप्रदेशावगाढादिकं पश्यतीति,
I ४४-४५ यदिवा एकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतम् , शेषं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितं, कर्मवर्गणोपरितनं तु सर्वमपि द्रव्यमगुरुलघुग्रहणेन गृहीतं, चशब्दसूचितगुरुलघुग्रहणेन तु घटपटभूभूधरादिकमतः समस्तपद्गलास्तिकायविषयत्वं परमावधेरनेन सूत्रेणाविष्कृतं, तथा च सति रूपगतं लभते सर्वमित्येतद् वक्ष्यमाणमस्यैव नियमाय प्रतिपत्तव्यम् , 'सिद्धे सत्यारम्भो नियमाय भवतीति न्यायात्, एतदेव रूपगतं सर्व लभते, नान्यदित्यलं विस्तरेण ॥ तदेवं परमावधेद्रव्यरूपो विषय उक्तः, अधुना क्षेत्रकालौ तद्विषयतया प्रतिपिपादयिषुराह__ "परमोहि असंखेजा लोगमेत्ता समा असंखेजा । रूवगयं लहइ सवं खेत्तोवमियं अगणिजीवा ॥४५॥"
पामश्चासाववधिश्च परमावधिः, क्षेत्रतोऽसोयानि लोकमात्राणि, खण्डानि इति गम्यते, लभते इति सम्बन्धः, कालतस्तु समा-उत्सपिण्यवसर्पिणीरसक्येया एव लभते, तथा द्रव्यतो रूपगतं-मूर्तद्रव्यजातं 'लभते' पश्यति 'सर्व'
x ॥६ ॥ समस्तं, किमुक्तं भवति?-परमाण्वादिभेदभिन्नं समस्तं पुद्गलास्तिकायं पश्यतीति, भावतस्तु प्रतिद्रव्यं सोयानसङ्ख्येयान् वा द्रा पर्यायानिति । यदुक्तमसळपेयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसधेयकमनमधिकं च कोऽपि सङ्कल्प
येदतो नियतपरिमाणप्रतिपादनार्थमाह-उपमीयतेऽनेन उपमितं, बाहुलकात् करणे निष्ठाप्रत्ययः,क्षेत्रस्योपमितं क्षेत्रोपमितं,
Jain Education International
For Private & Personal Use Only
A
Mw.jainelibrary.org