SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna "एगपएसोगाढं, परमोही लहइ कम्मगसरीरं । लहइ अ अगुरुअलहुअं तेअसरीरे भवपुहु" ॥ ४४ ॥ प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्च एकप्रदेशः तस्मिन्नवगाढं व्यवस्थितं एकप्रदेशावगाढं - परमाणुद्व्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, लभते पश्यति, अवध्यवधिमतोरमेदोपचारादवधिः पश्यतीत्युक्तम्, तथा कार्मणशरीरं च लभते आह-परमाणुव्यणुकादिकं द्रव्यमनुक्तं कथं लभ्यते ?, यावता एकप्रदेशावगाढं कार्मणशरीरमित्युपात्तमेव कस्मान्न योज्यते ?, तदसम्यक्, कार्मणशरीरस्य जीवप्रदेशानुसारितया सङ्ख्यातीत प्रदेशावगाहित्वेनैकप्रदेशावगाढत्वायोगात्, लभते चागुरुलघु चशब्दाद् गुरुलघु च जात्यपेक्षया सर्वमे (त्रै) कवचनम्, ततः सर्वाण्यप्येकप्रदेशावगाढानि कार्मणशरीराणि अगुरुलघूनि गुरुलघूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यमिति, तथा तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं तेनासङ्ख्येयेन कालेन विशिष्यते, भवपृथक्त्वमध्य एव स पल्योपमासत्येयभागः कालो नाधिकः, एतन्मध्ये एव च भवपृथक्त्वं न तदतिक्रमेऽपीति । आह- नन्वेकप्रदेशागाढस्य परमाण्वादेरतिसूक्ष्मत्वात् तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यते एव, ततः किमर्थ तेषां पृथगुपन्यासो !, व्यर्थत्वाद्, अथवा एकप्रदेशावगाढमित्यपि न वक्तव्यम्, 'रूपगतं लभते सर्व मित्यस्य वक्ष्यमाणत्वात्, तदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, तथाहि यः सूक्ष्मं परमाण्वादि पश्यति तेन बादरं कार्म्मणशरीरादिकमवश्यं द्रष्टव्यम् यो वा बादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोऽपि नियमः, यतः - 'तेया भासादवाणमंतरा' इत्यादिवचनात् प्रथमोत्पत्तावगुरुलघुद्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वा अतिस्थूरंमपि घटादिकं, तथा मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy