________________
Jain Education Interof
भागो लोकपल्योपमयोः, सूत्रे चिकत्वं समाहारद्वन्द्वविवक्षणात्, विषयत्वेन बोद्धव्यः, किमुक्तं भवति - मनोवर्गणागतं द्रव्यं पश्यन् अवधिः क्षेत्रतो लोकस्य सङ्ख्याततमं भागं कालतस्तु पल्योपमस्य सङ्ख्याततमं भागं पश्यति, 'संखेज कम्मदवे' इति कर्म्मवर्गणागतं कर्मपरिणामयोग्यं कर्मद्रव्यं तद्विषयेऽवधौ सोया लोकपल्योपमयोर्भागा विषयत्वेन विज्ञेयाः, इदमुक्तं भवति - कर्म्मवर्गणाद्रव्यं पश्यन् अवधिः क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य सङ्ख्येयान् भागान् उक्तं च- "लोगपलियाण भागं संखइमं मुणइ जो मणोदबं । संखेज्जे पुण भागे, पासइ जो कम्मुणो | जोग्गं ॥ १॥" (वि. ६७०) 'लोए थोऊणयं पलियं' ति लोके - चतुर्दशरज्वात्मकठोक विषयेऽवधौ कालतः स्तोकोनं पल्योपमं विषयतया विज्ञेयम्, किमुक्तं भवति ? - क्षेत्रतः समस्तं लोकं पश्यन्नवधिः कालतः स्तोकोनं पल्योपमं पश्यतीति, द्रव्येण सह क्षेत्र| कालयोरुपनिबन्धे प्रस्तुते केवलयोरुपनिबन्धप्ररूपणमसमीचीनं, विस्मरणशीलतासूचकत्वादिति चेत्, नैष दोषः, द्रव्योंपनिबन्धस्यात्रापि सामर्थ्य प्रापितत्वात्, तथाहि पूर्व 'काले चउण्ह वुड्डी' इत्युक्तम्, कालवृद्धिश्चात्र अनन्तरोककर्म्मद्रव्यदर्शकापेक्षया प्रतिपादिता, ततोऽस्य समस्त लोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात्कर्मद्रव्योपरि यत् किमपि ध्रुववर्गणादि तद्विपयत्वेन द्रष्टव्यम्, अत एव तदुपर्युपरि द्रव्याणि पश्यतः क्षेत्रकालवृद्धिक्रमेण परमावधिसम्भवोऽप्यनुमेयः, | द्वितीयगाथा व्याख्या - शरीरशब्दः प्रत्येकमभिसम्बध्यते, तैजसशरीरे कार्मणशरीरे च एतद्विषयेऽवधाविति भावः, तथा तेजसवर्गणा द्रव्यविषयेऽवधौ भाषाद्रव्यवर्गणाविषये चावधौ क्षेत्रतः प्रत्येकमसया द्वीपसमुद्राः कालश्वासङ्ख्येयः - पल्योपमासोयभागरूपो विषयत्वेनावसातव्यः इह यद्यप्यविशेषेणोकं तथापि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात्
For Private & Personal Use Only
www.jainelibrary.org