________________
।
नन्ता एव, 'इयर' इति इतरमहणादशून्यान्तरवर्गणा गृह्यन्ते, एकोपरच्या सर्वदेवाशून्यानि अन्तराणि यासांता अशून्यान्तरा: ताश्च ता वर्गणाच अशून्यान्तरवर्गणाः, पता कोचरवस्था निरन्तरमेव लोके सर्वदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिहानिरपान्तराले, तत ऐता अशून्यान्तरवर्गणाः, ता अपिच प्रदेशोत्तरवृख्या खल्वनन्ताः, 'चउधुवर्णता इति, ततोऽशून्यान्तरवर्मणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, ध्रुवाणि च सर्वकालभावित्वादन|न्तराणि च निरन्तरकोत्तरवृद्धिभात्त्वात् ध्रुवानन्तराणि, किमुक्तं भवति :-आधा धुवाऽनन्तरवर्गणाः प्रथमतोऽनन्ता भवन्ति, तदनन्तरमेतावत्यो द्वितीयास्ततस्तृतीया ततश्चतुर्था वाध्या, ध्रुववर्गणाः प्रागप्युक्ताः परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाबद्रव्योपचितत्वाच, एतासां चतसृणामपि ध्रुववर्गणानां प्रत्येकम|पान्तराले एकोत्तरवृद्धिहानिरवसातव्या, अन्यथा निरन्तरमेकोत्तरवृद्धिसम्भवे चातुर्विध्यासम्भवात, एवं तनुवर्गणानामपि भावनीयम्, एतासां चतसृणां ध्रुववर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्रस्तनुवर्गणा भवंति, तनूनाम्-औदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः, अथवा वक्ष्यमाणमिश्रस्कन्धाचिचस्कन्धद्वयस्य तनुः-देहः शरीरं मूर्तिरितियावत्, तद्योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः, आह च भाष्यकृत्" धुवणंतराइ चत्तारि, जं धुवाई अणंतराइंच। भेयपरिणामतो जा सरीरजोग्गत्तणाभिमुहा ॥१॥ खंधदुगदेहजोग्गतणेण वा देहवग्गणातोत्ति (वि. ६४१-६४२)। 'मीसो' इति, तदनन्तरं मिश्रस्कंधो भवति, सूक्ष्म एव सन् ईषद्वादरपरिणामा|भिमुखःसूक्ष्मत्वबादरत्वपरिणाममिश्रणात मिश्रस्कन्धः, आह चभाष्यकत- “महमो दरगयवायरपरिणामो मीसगोखंधो।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org