________________
पावश्यक उपोद्घाते
ध्रुवाचावर्गणाः
माणसदवाईणवि, एवं तिविकप्पमेकेकं ॥ ३ ॥” (वि. ६४८, ६४९) अधुना द्वितीयगाथाव्याख्या-तत्रानन्तरगाथायां है कर्मद्रव्यवर्गणाःप्रतिपादिताः, सम्प्रति प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्यन्ते-क्रियते-मिथ्यात्वादिसचिवैजींवैनिवर्त्यते इति कर्म कर्मण उपरि कर्मोपरि, 'नाम नाम्नेकार्थे समासो बहुल'मिति समासः, षष्ठीतत्पुरुषस्तु न प्राप्नोति, 'अव्ययेति प्रतिषेधात्, कांग्रहणप्रायोग्यवर्गणानामुपरीतिभावः, 'धुवे'ति ध्रुववर्गणा अनन्ता भवन्ति, तद्यथा-कर्म-| ग्रहणप्रायोग्यवर्गणानामुपरि एकाधिकपरमाणूपचितातिसूक्ष्मपरिणामाऽनन्तपरमाण्वात्मिका प्रथमा ध्रुववर्गणा भवति, तत एकोत्तरवृद्धया वर्द्धमानाः एता अपि ध्रुववर्गणा अनन्ता वेदितव्याः, ध्रुवा-नित्याः लोकव्यापितया सर्वकालावस्थायिन्य इति भावः, अन्तदीपकं चेदं, ततश्चैतासां ध्रुवत्वभणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम्, तासामपि सर्वत्र लोके सदैवाव्यवच्छेदात्, अन्यच्च-एता ध्रुववर्गणा वक्ष्यमाणाश्चाधुवाद्याः सर्वा अपि ग्रहणाप्रायोग्यवर्गणाः अतिबहुद्रव्योपचित्वेनातिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेनाग्रहणात् , तदनन्तरमित्वमेवैकोत्तरवृझ्या वर्द्धमाना ध्रुववगणाभ्य इतरा अधुववर्गणा अनन्ता भवन्ति, एताश्च तथाविधपुलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि, तत एता अध्रुवा इति व्यपदिश्यन्ते, अधुवा-अशास्वत्यः, कदाचिन्न सन्त्यपीति भावः, ततः 'सुन्ना' इति 'सूचनात् सूत्र'मिति न्यायात् शून्यान्तरवर्गणाः परिगृह्यन्ते एकोत्तरवृद्ध्या, कदाचिच्छ्न्यानि-व्यवहितानि अन्तराणि यासां ताः शून्यान्तराः ताश्च ता वर्गणाश्च शून्यान्तरवर्गणाः, किमुक्तं भवति ?-एता एकोत्तरवृत्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेताखेकोत्तरवृद्धिरन्तरान्तरा व्यति, तत एताः शून्यान्तरवर्गणाः, एता अप्य
॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org