________________
*यावत् असंख्यप्रदेशावगाढाना, कालत एकसमयस्थितीनां सर्वेषां परमाणनां स्कन्धानां च एका वर्गणा द्विसमयस्थितीनां सर्वेषां द्वितीया वर्गणा त्रिसमयस्थितीनां सर्वेषां तृतीया वर्गणा एवमेकैकसमयवृया संख्येयसमयस्थितीनां परमाण्वादीनां सङ्ख्येया वर्गणाः असङ्ख्येयसमयस्थितीनां त्वसङ्ख्येया वर्गणाः, भावत एकगुणकृष्णानां परमाणूनां स्कन्धानां च सर्वेषामेका वर्गणा कृष्णवर्णगुणद्वययुक्तानां परमाण्वादीनां द्वितीया वर्गणा एवमेकैकगुणवृख्या सक्येयकृष्णवर्णगुणानां सङ्ख्येया वर्गणाः असमयेयकृष्णवर्णगुणानामसङ्ख्येया अनन्तकृष्णवर्णगुणानामनन्ताः, एवं नीललोहितहारिद्रशुक्लेषु ४ सुरभीतरयोर्गन्धयोः ६ तितकटुकषायाम्लमधुरेषु पञ्चसु रसेषु ११ कर्कशमृदुगुरुलघुशीतोष्णस्निग्धरूक्षेषु अष्टासु स्पर्शेषु १९ सर्वसङ्ख्यया एकोनविंशतिस्थानेषु प्रत्येकमेकादीनां सङ्ख्येयगुणानां सङ्ग्येयाः असक्येयगुणानामसङ्ख्येयाः अनन्तगुणानामनन्ता वर्गणा वाच्याः, तथा लघुगुरुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेते द्वे वर्गणे भवतः, तत्र समस्तलोकाकाशप्रदेशवर्तिनामेकाकिपरमाणूनां | समुदाय एका वर्गणा, ततः समस्तलोकवर्तिनां द्विप्रदेशिकस्कन्धानां द्वितीया वर्गणा, ततः समस्तानामपि त्रिप्रदेशिक-1 स्कन्धानां तृतीया वर्गणा, चतुष्पदेशिकस्कन्धानां चतुर्थी, एवमेकोत्तरवृद्ध्या तावन्नेयं यावत् सङ्ग्यातप्रदेशिकस्कन्धानां | सङ्ख्येया वर्गणाः असङ्ख्येयप्रदेशिकानामसङ्ख्येयाः अनन्तप्रदेशिकानामनन्ताः खल्वग्रहणप्रायोग्या वर्गणा विलय विशिष्टत परिणामयुक्ता औदारिकशरीरग्रहणप्रायोग्या अनन्तवर्गणा भवन्ति, ततो एकोत्तरप्रदेशवृक्ष्या वर्द्धमानाः प्रचुरद्रव्य-12 त्वात्सूक्ष्मतरपरिणामत्वाचौदारिकस्याग्रहणप्रायोग्या अनंता वर्गणा भवंति, ताश्च स्वल्पपरमाणुनिष्पन्नत्वाद्वादरपरि-18
REACHERSION
Jain Educatan internete
For Private & Personal Use Only
www.jainelibrary.org