________________
ECARALACE
पर्यायः सञ्जयेयगुणोऽसङ्ख्येयगुणो वा, उक्तं च-"खेत्तविसेसेहितो, दबमणतगुणियं पएसेहिं। दवेदितो भावो मखमणोऽसंख गुणियो वा ॥१॥" (वि. ६२५ पए.) उक्तमवधेर्जघन्यमध्यमोत्कृष्टभेदभिवं क्षेत्रपरिमाण, क्षेत्रं चावधिगोचरगव्याधारेपावधेय॑पदिश्यते, ततः क्षेत्रस्य द्रव्यावधिकत्वात्तदभिधानानन्तरं अवधिपरिच्छेदयोग्यं द्रव्यमभिधातव्यं, अवधिश्चा विधा-जघन्यों मध्यम उत्कृष्टश्च, तत्र जघन्यावधिपरिच्छेदयोग्यं तावद्रव्यमभिधित्सुराह
तेयाभासादवाण अंतरा एत्थ लहइ पट्टवगो। गुरुलह अगुरुयलहुयं तंपि य तेणेव निट्ठाइ ।। ३७॥
तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषां तैजसभाषाद्रव्याणामन्तरात्, प्राकृतत्वाद्विभक्तिपरिणामः, अन्तरे, अथवा अंतरे इति पाठान्तरमेव, किमुक्तं भवति ?-तैजसभाषाद्रव्याणामपान्तराले इति, 'अत्र' एत-1 स्मिन् उभयायोग्यद्रव्यसमूहे तैजसभाषाभ्यामन्यदेव द्रव्यं लभते' पश्यति, कोऽसावित्याह-'प्रस्थापकः' प्रस्थापको नाम | तत्प्रथमतया अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदित्याह- 'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, किमुक्तं भवति ?-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतमगुरुलघु, तर यत्तैजसद्रव्यासन्नं तद् गुरु-1।। लघु यत्पुनीषाद्रव्यासन्नं तदगुरुलघु, तदपि चावधिज्ञानं प्रच्यवमानं सत्पुनस्तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवते इति भावः, तथा चोक्तं--"पद्धवगो नाणस्सारंभतो (पासए) जंत(या)दीए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दवं
॥१॥ गुरुलघु तेयासन्नं भासासन्नमगुरुं व पासेज्जा । आरंभेज दिदै दट्टणं पडइ तं चेव ॥२॥” (वि.६२८-९) 'तदपि ताचे त्यत्रापिशब्दो यत्प्रतिपाति तत्रायं नियमो न पुनरवधिज्ञानं प्रतिपात्येव भवतीति संदर्शनार्थः, चशब्दस्त्वेवकारार्थः
Jain Education Inter
For Private & Personal use only
Primr.jainelibrary.org