SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ | भावनीयः, यदा पुनः स्वयंभूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसङ्ख्येयकालविषयो जायते तदा तस्य स्वयंभूर| मणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधिर्वा तदैकदेशो विषयः, क्षेत्रपरिमाणं पुनः | सर्वत्रापि योजनापेक्षया संख्येयाख्यं असङ्ख्येयाख्यं वा तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धिस्तथा परिस्थूरन्यायमङ्गीकृत्य प्रतिपादितं । सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यद्वृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह— काले चण्ह वुडी, कालो भइयब्वु खेत्तवुडीए । वुड्डीए द्वपज्जव भहयवा वित्तकाला उ ॥ १ ॥ काले- अवधिगोचरे वर्द्धमाने चतुर्णा द्रव्यक्षेत्र कालभावानां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां | कालो भजनीयो-विकल्पनीयः, कदाचिद्वर्द्धते कदाचिन्न, क्षेत्रं ह्यत्यंतसूक्ष्मं कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति । द्रव्यपर्यायौ तु नियमतो वर्द्धेते, यत उक्तम्- "काले पवड्डूमाणे सबै दवादयो पत्रति । | खित्ते कालो भइओ वहुति उ दवपज्जाया ॥ १ ॥ (त्रि. ६१८) तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोर्वृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतत्वाद्, भजनीयावेव क्षेत्रकालौ, हुशब्द एवकारार्थः स च भिन्नक्रमः तथैव च योजितः, भजना चैवं-कदाचित्तयोर्वृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्मं, एकस्मिन्नपि नभः प्रदेशेऽनन्तस्कन्धावगाहतः, द्रव्या दपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात् ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाली भजनीयावेव भवतः, द्रव्ये च वर्द्धमाने पर्याया नियमतो वर्द्धन्ते, प्रतिद्रव्यं सङ्ख्या नामसङ्ख्येयानां वा पर्यायाणामवधिना परिच्छेदसम्भवात् पर्याये तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy