SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ -- अवधौ. निवन्धः - आवश्यक त्रविषयोऽवधिर्वर्ष-संवत्सरमतीतमनागतं च पश्यति, तथा रुचके-रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयोऽवधिर्वर्षपृथक्त्वं उपोद्धाते पश्यति । 'संखे' त्यादि, संख्यायते इति सङ्ख्येयः,स चसंवत्सरलक्षणोऽपि भवति, ततश्चशब्दो विशेषणार्थ उपात्तः, स चैत द्विशिनष्टि-सहयेयः कालो वर्षसहस्रात्परो वेदितव्यः, तस्मिन् सङ्ख्येये कालेऽवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया ॥ ५५॥x द्वीपाश्च समुद्राश्च द्वीपसमुद्रास्तेऽपि भवन्ति सङ्ख्येयाः, अपिशब्दान्महानेकोऽपि महत एकदेशोऽपि, किमुक्तं भवति ?त सङ्ख्येये कालेऽवधिना परिच्छिद्यमाने क्षेत्रमपि संख्ये यद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, तत्र यदि नाम अत्रत्यस्यावधि रुत्पद्यते ततो जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथ बाह्ये द्वीपे समुद्रे वा सङ्ख्येययोजनविस्तृते कस्यापि ४ तिरश्चः सङ्ख्येयकालविषयोऽवधिरुत्पद्यते तदा यथोक्तक्षेत्रपरिमाणं तमेवैक द्वीप समुद्रं वा पश्यति, यदि पुनरसङ्ख्येययो जनविस्तृते स्वयंभूरमणादिके द्वीपे समुद्रे वा सङ्ख्येयकालविषयोऽवधिः कस्याप्युपजायते तदानीं स प्रागुक्तपरिमाणं तस्य द्वीपस्य समुद्रस्य वा एकदेशं पश्यति, यदिवा इहत्यतिर्यमनुष्यबाह्यावधिरेकद्वीपविषयो द्वीपैकदेशविपयो वा वेदितव्यः। तथा कालेऽसङ्ख्येये-पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासङ्ख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्रास्तु भाज्याः-विकल्पयितव्याः, कस्यचिदसङ्ख्येया एव कस्यचित्सङ्ख्येयाः कस्यचिन्महानेकः कस्यचिदेकदेश इत्यर्थः, तत्र इह यदा मनुष्यस्थासङ्ख्येयकालविषयोऽभ्यन्तरावधिरुत्पद्यते तदानीमसक्वेया द्वीपाः समुद्राश्चास्य विषयः, यदा पुनहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरश्चोऽसङ्ख्येयकालविषय उपजायते तदा तस्य सङ्ग्येया दीपसमुद्राः, अथवा यस्य मनुष्यस्यासयेयकालविषयो बाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्येया द्वीपसमुद्राः, एवमेकद्वीपविषयोऽपि -Ckestak --- ---- ॥५५॥ lain Educatonneraton For Private & Personal Use Only Pinw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy