________________
स्मेति ख्यापनार्थः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति तत आह-सर्वदिक,अनेन सूचीभ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववषिश्च परमावधिः, एतावद् अनन्तरोदितं सर्वबहनलसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य निर्दिष्टः। प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः, किमुक्तं भवति ?-सर्वबहग्निजीवा निरन्तरं यावत् क्षेत्र सूचीभ्रमणेन सर्वदिकं भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः। अयमिह सम्प्रदाय:-सर्वबह्वग्निजीवादयः प्रायोऽजितस्वामितीर्थकाले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्यभावात् , सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवक्ष्यते, ततश्च ते सर्वबहवोऽनलजीवा भवन्ति, तेषां स्वबुद्ध्या पोढा अवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव घनो जीवैः स्वावगाहनाभिरिति द्वितीयं, एवं प्रतरोऽपि विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , षष्ठस्तु प्रकारः सूत्रादेशः, उक्तं च-“एकेकागासपएस जीवरयणा य सावगाहे य । चउरंस घणं पयरं सेढी छट्टो सुयादेसो ॥१॥" (वि.६०१) ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलिरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असल्येयान् लोकमात्रान् क्षेत्र विभागान् अलोके प्राप्नोति,एतावत्क्षेत्रमवधिरुस्कृष्टः, उक्तंच-नियगावगाहणागणिजीवसरीरावलीभमंतेण । भामिजइ ओहिनाणीदेहपजंततो सा य॥१॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई।ठाइ असंखेजाइं इदमोहीखेत्तमुक्कोस॥२॥(वि.६०३-६०४)” इदं च सामर्थ्यमात्रमुपवीते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावताऽलोके तन्न विद्यते, अलोके रूपिद्रव्याणामसंभवात् , रूपिद्र
Jain Education International
For Private & Personal use only
www.jainelibrary.org