________________
पोद्धाते
अवधेश त्कृष्टक्षेत्र
॥५३॥
XXXX
समयाः, विग्रहगत्यभावाच्चैतेषु त्रिष्वपि समयेष्वाहारकस्तत उत्पादसमयएव त्रिसमयाहारकः सूक्ष्मपनकजीवो, जघन्यावगाहनश्चासौ, ततस्तच्छरीरमानं जघन्यमवधिक्षेत्रं, तच्चायुक्तं, यतस्त्रिसमयाहारकस्येति विशेषणं पनकस्य, न तु मत्स्यस्य, नच मत्स्यायामप्रतरसंहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यं नान्यथा, एतावत्प्रमाणजघन्यक्षेत्रस्यावधिः तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्ति द्रव्यमालम्बते, 'तेयाभासादवाणमंतरा एत्थ लहइ पट्ठवतो' इतिवक्ष्यमाणवचनात् ॥ तदेवं जघन्यमवधेः क्षेत्रमुक्तम्, साम्प्रतमुत्कृष्टमभिधातुकाम आह* "सबष अगणिजीवा निरंतरं जत्तियं भरिजंसु । खेत्तं सबदिसागं परमोही खेत्त निदिहो ॥ ३१॥" | 'सबबहु' इति, यत ऊर्द्धमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते ते सर्वबहवः, सर्वबहवश्च तेऽग्निजीवाः-सूक्ष्मबादररूपाः सर्वबह्वग्निजीवाः, कदा सर्वबह्वग्निजीवा इति चेत् , उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातं अग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, तेच प्रायोऽजितस्वामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवास्तदा सर्वबह्वग्निजीवपरिमाणं, उक्तं च-अबाधाए सबासु कम्मभूमीसु जं तदारंभा। सबबहवो मणुस्सा, होन्तऽजियजिणिंदकालंमि॥१॥उकोसया य सुहुमा जया तया सबबहुगमगणीण परिमाण"मिति,(वि.५९९-६००) निरन्तर'मिति क्रियाविशेषणं, यावद्-यावत्परिमाण क्षेत्रं 'भृतवन्तो व्याप्तवन्तः, किमुक्तं भवति?-नैरन्तर्येण विशिष्टसूचीरचनया यावळ्याप्तवन्तः, व्याप्तवन्त इति भूतकालनिर्देशः अजितस्वामिकाल एव च प्रायः सर्वबहवोऽनलजीवा अस्यामवसर्पिण्यां भवन्ति
५३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org