________________
सातव्यं, उकं च-योजनसहनमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥१॥ द्रसिंहृत्य चाद्यसमये सद्यायाम करोति च प्रतरम् । सङ्ख्यातीताख्याकुलविभागवाहल्यमानं तु॥२॥स्वतनु (क)पृथुत्वमात्रां
दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥३॥ सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतेनुपृथुत्वदैया तृतीयसमये तु संहृत्य ॥ ४॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः। समयत्रयेण तस्यावगाहना यावती भवति ॥ ५॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥६॥" अत्र कश्चिदाह-किमिति योजनसहस्रायामो मत्स्यः?, किंवा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्मत्वेनोत्पादः किं वा त्रिसमयाहारकत्वं परिगृह्यते ?, उच्यते, इह योजनसहस्रमानो मत्स्यः स किल त्रिभिः समयैः आत्मानं सङ्क्षिपति महतः प्रयत्नविशेषात, महाप्रयत्नविशेषाधिरूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणो अतीव सूक्ष्मामारभते, ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीये समये चातिसूक्ष्मो भवति चतुर्थादिषु तु समयेष्वतिस्थूरस्त्रिसमयाहारकस्तु योग्यस्ततस्त्रिसमयाहारकग्रहणं, उक्कं च-"मच्छो महल्लकाओ संखित्तो जो उ तीहि समएहिं । स किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥१॥सण्हयरा सण्यरो सुहुमो पणगो जहण्णदेहो य । सुबहुविसेसविसिहो सहयरो सबदेहेसु ॥२॥ पढमवीए5तिसण्हो जमइत्थूलो चउत्थयादीसु । तइयसमयंमि जोग्गो गहियो तो तिसमयहारो ॥ ३॥ (वि.५९३-५९४)” अन्ये तु व्याचक्षते-त्रिसमयाहारकस्येति, आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयःसूचीसंहरणोत्पत्तिदेशागमविषयः, एवं त्रयः
Jain Education Intern
For Private & Personal use only
ww.jainelibrary.org KI