SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अवधेर्ज घन्यक्षेत्र पोलातेवावधिः, चशब्दो समुच्चयार्थों, एषोऽनन्तरव्यावर्णितस्वरूपः,खलुशब्द एवकारार्थः स चावधारणे, एष एव नान्यः, निक्षे. पणं निक्षेपोऽवधेर्भवति सप्तविधः-सप्तप्रकारः॥ सम्प्रति क्षेत्रपरिमाणाख्यं द्वितीयद्वारं अभिधातव्यं, क्षेत्रपरिमाणं च ॥५२॥ त्रिधा-जघन्यं मध्यममुत्कष्टं च, तत्र जघन्यं क्षेत्रपरिमाणमभिधित्सुराह "जावइया तिसमयाहारगस्स सुहुमरस पणगजीवस्स । ओगाणा जहण्णा ओही खेत्तं जहण्णं तु ॥ ३०॥" __ आहारयति-आहारं गृह्णातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमयं, त्रिसमयमाहारकः त्रिसमयाहारकः, 'व्याप्ता'विति समासः, 'नाम नाम्नैकार्थे समासो बहुल'मिति समासः, तस्य त्रिसमयाहारकस्य 'सूक्ष्मस्य सूक्ष्मनामकर्मोदयवतिनः, पनकजीवस्य पनकश्चासौ जीवश्च पनकजीवः-वनस्पतिविशेषः तस्य, 'यावती' यावत्परिमाणाऽवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः जघन्या-शेषत्रिसमयाहारकसूक्ष्मपनकजीवापेक्षया सर्वस्तोका एतावत्परिमाणमवधेर्जधन्यं क्षेत्रं, तुशब्दोऽवधारणे 'तुः स्याद्देदेऽवधारणे' इति वचनात् , जघन्य क्षेत्रमवधेरेतावदेवेति, अत्रायं सम्प्र दाया-यः किल योजनसहस्रपरिमाणायामो मत्स्यः स्वशरीरस्य बहिरेकदेशे एवोत्पद्यमानः प्रथमसमये सकलनिजशइशरीरसम्बद्धानामात्मप्रदेशानामायाम संहृत्याङ्गुलासङ्ख्येयभागबाहल्यं स्वदेहविष्कम्भप्रमाणायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्याङ्गुलासङ्ख्येयभागविष्कम्भां मत्स्यदेहविष्कम्भप्रमाणायामामात्मप्रदेशानां सूची विरचयति, तृतीयसमये तामपि संहृत्याङ्गलासङ्ख्येयभागमात्रे स्वशरीरस्य बहिः प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमालम्बनवस्तुभाजनक्षेत्रमव CREAMROSAGARMA5% AAKAAGRAATAKAL Jain Education Intem For Private & Personal use only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy