________________
Jain Education International
सद्विविध:-आगमतो नोआगमतश्च तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोजाग| मतस्त्रिविधस्तद्यथा-ज्ञशरीरद्रव्यावधिः भव्यशरीरद्रव्यावधिः शशरीरभव्यशरीरव्यतिरिकद्रव्यावधिश्च तत्र शशरीरभव्यशरीरे प्रतीते, तृतीयस्तु साक्षात्सूत्रेणैवोपात्तः 'दविए' इति द्रव्यावधिर्द्रव्यालम्बन इत्यर्थः, अथवा सूत्रे प्रथमान्तस्याप्येकारान्तता, जिनवचनस्य च सर्वस्याप्यर्द्धमागधभाषात्वात्, ततो द्रव्यमेवावधिर्द्रव्यावधिः, कारणं द्रव्यमिति भावः, यदिवा उत्पद्यमानस्यावधेर्यदुपकारकं शरीरादि तदवधिकारणत्वात् द्रव्यावधिः, आइ च-दबोही उप्पज्जइ जत्थ ततो जं च पासए तेण । जं वोवयारि दवं देहाइ तदुब्भवे होइ ||१||” (वि. ५८४) तथा क्षेत्रेऽवधिः क्षेत्रावधिः, किमुक्तं भवति १- यत्र | क्षेत्रेऽवस्थितस्यावधिरुत्पद्यते यत्र वा क्षेत्रेऽवधिः प्रज्ञापकेन प्रकाश्यते यत्र वा क्षेत्रे स्वयोग्यानि द्रव्याण्यवधिः परिच्छिनत्ति स क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रे व्यपदिश्यते इति क्षेत्रेऽवधिः क्षेत्रावधिरित्युच्यते, एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते यत्र वा प्रज्ञापकेन प्ररूप्यते यस्मिन् वा काले स्वयोग्यानि द्रव्याणि परिच्छिनत्ति स कालस्व प्राधान्यविवक्षया कालेन व्यपदिश्यते, कालेनावधिः कालावधिः, अथ किमिति क्षेत्रकालावस्थितानि द्रव्याणि पश्यत्यसावित्युच्यते, न पुनः क्षेत्रकालावेव साक्षात्पश्यतीति ?, उच्यते, क्षेत्रकालयोरमूर्त्तत्वेन तदविषयत्वाद्, आह च भाष्यकृत् - "खेचे जत्थुष्पज्जइ कहिजए पेच्छए व दबाई । एवं चैव य काले नउ पेच्छइ खेत्तकाले से ॥ १ ॥ " ( वि. ५८५) तथा भवन्ति तत्तत्कर्मवशवर्त्तिनः प्राणिनोऽस्मिन्निति भवः- नारकादिलक्षणः, 'तुदादिभ्यो नक्का' वित्यधिकारे 'अकितौ चे 'ति अप्रत्ययः, | तस्मिन् भवे उत्पद्यते वर्त्तते प्रेक्षते वा षोऽवधिः स भवावधिः, भावः - क्षायोपशमिकः द्रव्यपर्यायो वा तस्मिन्नवधिर्भा
For Private & Personal Use Only
ki
www.jainelibrary.org