________________
Jain Education Intern
तथापि विनेयजनानुग्रहाय चतुर्दशविधनिक्षेपं अवधेः सम्बन्धिनमामर्षौषध्यादिलक्षणं ऋद्धिं प्राप्ताः ऋद्धिप्राप्तास्तांश्च, चशब्दः समुच्चये, वक्ष्ये - अभिधास्ये ॥ तत्र चतुर्दशविधनिक्षेपप्रतिपिपादयिषुस्तद्द्वारगाथाद्वयमाह -
"ओही खेत्त परिमाणे, ठाणे आणुगामिए । अवट्ठिए चले तिव-मंदपडिवाउप्पया इय ॥ २७ ॥ नादंसणविभंगे, देसे खित्ते गई इय । इड्डीपत्ताणुओगे य, एमेया पडिवत्तीओ ॥ २८ ॥ " इह अवध्यादीनि गतिपर्यन्तानि चतुर्द्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदशं द्वारम्, तच्च चतुर्दशविधनिक्षेपवक्तव्यतानन्तरं पश्चाद्वक्ष्यते, अन्ये त्वाचार्या अवधिरित्येतत्पदं परित्यज्य आनुगामिकमनानुगामिकसहितमतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, वदन्ति च यस्मान्नावधिः प्रकृतिः, किन्तु प्रकृतिमान्, प्रकृतीनां च चतु र्द्दशधा निक्षेप इति, पक्षद्वयेऽप्यविरोधः, तत्रावधिरिति अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, अवधिशब्दो द्विरावर्त्यते, अर्थवशाच्च विभक्तिपरिणाम इति १, जघन्य मध्यमोत्कृष्टभेदभिन्नमवधेः क्षेत्रपरिमाणं वक्तव्यं २, तथा संस्थानमवधेर्वक्तव्यं ३, तथा अनुगमनशील आनुगामिकोऽवधिः सप्रतिपक्षो वक्तव्यः, एकारान्तता सर्वत्रापि प्रथमान्तस्य प्राकृतत्वात्, यथा- 'कयरे आगच्छइ दित्तरुवे' इत्यादि ४, तथा द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन् उपयोगतो लब्धितश्चावतिष्ठते इत्यवस्थितोऽवधिर्वक्तव्यः५, तथा वर्द्धमानतया क्षीयमाणतया च चलः - अनवस्थितोऽवधिर्व कव्यः ६, तथा तीत्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः मन्दः - अविशुद्धः तीव्रमन्दस्तूभयप्रकृतिरिति ७, तथा द्रव्याद्यपेक्षया एककाले प्रतिपातोत्पादौ वक्तव्यौ ८, तथा ज्ञानदर्शन विभङ्गा वाच्याः, किमुक्तं भवति ? -किमत्र ज्ञानं
For Private & Personal Use Only
www.jainelibrary.org