________________
उपोद्धात
अवधे
भैदाः २५-२६
%20-%25-30
व्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्ट विषयपरिमाणं द्रव्यतः प्रतिवस्तुगतासयेयपर्यायपरिमाणं विश्यमानं भावतो, ज्ञेयभेदेनैव ज्ञानस्यापि भेद इति समस्तं पुद्गलास्तिकायं तत्पर्यायांश्चाङ्गीकृत्यानन्ता अवधेः प्रकृतयः, आसां च मध्ये काश्चनान्यतमाः प्रकृतयो भवप्रत्ययाः' भवन्ति कर्मवशवनिःप्राणिनोऽस्मिन्निति भवो-नारकादिजन्म स पक्षिणां गगनगमनलब्धिरिवोत्पत्तौ प्रत्ययः-कारणं यास ताः भवप्रत्ययाः, ताश्च नारकामराणामेव, काश्चन पुनरन्यतमाः 'गुणप्र-12 त्ययाः'क्षयोपशमेन निवृत्ताःक्षायोपशमिकाः ताश्च तिर्यड्मनुष्याणां, उक्तंच-"भवपच्चइया नारयसुराण पक्खीणवा नभोग. मणं । गुणपरिणामनिमित्ता सेसाण खओवसमियाओ॥१॥" (वि.५७२) ननु अवधिज्ञानं क्षायोपशमिके भावे प्रतिपादितं. नारकादिभवस्त्वौदयिकः, ततः स कथं तासामवधिप्रकृतीनां प्रत्ययो भवितुमर्हति !, नैष दोपः, तासामपि क्षयोपशमनिबन्ध नत्वात् , केवलमसौ क्षयोपशमस्तस्मिन् नारकामरभवे सत्यवश्यंभावीति भवप्रत्ययास्ता इत्युक्तं, आह च भाष्यकृत्| "ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपच्चइओ वो जुत्तोऽवही दोण्हं १ ॥१॥ सोवि ह
खओवसमिओ किं तु स एवकूखओवसमलाभो । तंमि सइ होअवस्सं भण्णइ भवपच्चओ तो सो॥२॥"(वि. ५७३31५७४ ) साम्प्रतं सामान्यरूपतयोद्दिष्टानामवधिप्रकृतीनां वाचः क्रमवर्तित्वादायुषश्चाल्पत्वात् यथावद्भेदेन तत्प्रतिपा-18 दनसामर्थ्यमात्मनोऽपश्यन्नियुक्तिकृदाह
"कत्तो मे वण्णे सत्ती ओहिस्स सवपयडीओ। चोइसविहनिक्खेवं इहीपत्ते य वोच्छामि ॥ २६॥" कुतो 'मे' मम वर्णयितुं शक्तिरवधेः सर्वप्रकृती, नैव शक्तिरित्यर्थः, आयुषः परिमितत्वाद्वाचः क्रमवर्तित्वाच्च,
C-AAMKARA
%20-
॥५०॥
Jain Educaton inte
For Private & Personal use only
W
w
.jainelibrary.org