SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ % % % -70 -9 योगः सूत्राभिधानलक्षण एव कर्त्तव्यः,माभूत् प्राथमिकविनेयानां मतिभेदः, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रितो | भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शनियुक्तिसहितं द्वितीयमनुयोगं गुरुर्विदध्यादित्याख्यातं तीर्थकरगणधरैरिति भावः, तृतीयश्चानुयोगो निरवशेषः-प्रसकानुप्रसक्तप्रतिपादनलक्षण इति, 'एषः' उक्तलक्षणो विधिर्भवत्यनुयोगे-व्याख्यायां, आह-परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथं ?, उच्यते, त्रयाणामनुयोगप्रकाराणामन्यतमेन केनचिप्रकारेण भूयो भूयो भाग्यमानेन सप्तवारं श्रवणं कार्यते, ततो न कश्चिद्दोषः, अथवा कञ्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनादिति कृतं प्रसङ्गेन ॥ तदेवमुक्तं श्रुतज्ञानस्वरूपम् , सम्प्रति प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाह*"संखातीताओ खलु ओहीनाणस्स सवपयडीओ। काई भवपच्चइया खओवसमिया उ काओवि ॥ २५ ॥” | सङ्ख्यानं सङ्ख्या तामतीताः-अतिक्रान्ताः सङ्ख्यातीताः, असङ्ख्येया इत्यर्थः, तथा सङ्ख्यातीतमनन्तमपि भवति ततश्चानन्ता अपीति द्रष्टव्यं, तथा च खलुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि-क्षेत्रकालाख्यप्रमेयापेक्षया सङ्ख्यातीता द्रव्यभावाख्यप्रमेयापेक्षया त्वनन्ता इति, अवधिज्ञानस्य-प्राग्निरूपितशब्दार्थस्य प्रकृतयो-भेदा, सोश्च ताः प्रकृतयश्च सर्वप्रकृतयः, इयमत्र भावना-इहावधेर्लोकक्षेत्रासयेयभागादारभ्य प्रदेशवृद्ध्या असङ्ख्येयलोकपरिमाणमुत्कृष्टमालम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाया असङ्ख्येयभागादारभ्य समयवृद्ध्या खत्वसङ्ख्येयोत्साधिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभदाच ज्ञानस्य भेद इति क्षेत्रकालावधिकृत्य संख्यातीतास्तत्प्रकृतयः, तथा तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रादेशिक-! 7 R- Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy