________________
पोद्धाते में चयाः, अपिशब्दः पर्यालोचयन् किश्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते इति सूचनार्थः, ततः पर्यालोचनानन्तरमपोहते एव- बुद्धिगुणाः
मेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थ निश्चितं स्वचेतसि विस्मृत्यभावार्थ सम्यक धारयति, करोति च अनुयोग॥४९॥ सम्यक्-यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः, तदावरणकर्मक्षयोपशमनिमित्तत्वात् , अथवा यद् यद् विधिः
आज्ञापयति गुरुस्तत्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते, पूर्वसन्दिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति पति- ४२१-२४ पृच्छति, पुनरादिष्टः सम्यक् शृणोति , शेषं पूर्ववत् ॥ तदेवं व्याख्याता गुणाः, सम्प्रति यत् शुश्रूपते इत्युक्तं तत्र श्रवणविधिमाह
"मयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंग पारायणं च परिणिट्ट सत्तमए ॥ २३॥" _ 'मूक'मिति प्रथमतो मूकं शृणुयात् , किमुक्तं भवति ?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये बाढकारं कुर्यात् , बाढं-एवमेतत् नान्यथेति प्रशंसेदित्यर्थः, चतुर्थे श्रवणे गृही
तपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतत् इति, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति भावः, ४ षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गं पारगमनं चास्य भवति, ततो सप्तमे श्रवणे परिनिष्ठो, गुरुवदनुभाषते इत्यर्थः। एवं तावत् ॥४९॥
श्रवणविधिरुतः, सम्प्रति व्याख्यानविधिमभिधित्सुराह"सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसितो भणितो। तहओ य निरवसेसो एस विही होइ अणुओगे २४"| प्रथमोऽनुयोगः सूत्रार्थः-सूत्रार्थप्रतिपादनपरः, खलु एवकारार्थः स चावधारणे, ततोऽयमयः-गुरुणा प्रथमोऽनु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International