SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ACC RACOCKCENG, क्षेत्रं कालतः सर्व कालं भावतः सर्वान् भावान् । इदं च श्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थ यो यथा चास्य लाभस्तं तथाऽस्य दर्शयति___ "आगमसत्थग्गहणं जं बुद्धिगुणेहिं अहहिं दिह्र । ति सुयणाणलंभं तं पुत्वविसारया धीरा ॥ २१॥" आ-अभिविधिना सकल श्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणया गम्यते-परिच्छिद्यते अर्था येन स | आगमः, ''नानी'तिकरणे घप्रत्ययः, स चैवंव्युत्पत्त्या अवधिकेवलादिरूपोऽपि प्रामोति ततस्तद्व्यवच्छेदार्थ विशेषणान्तरमाह-शास्त्रे'ति शिष्यतेऽनेनेति शास्त्रं आगमश्च तत् शास्त्रं च आगमशास्त्रं, आगमग्रहणेन षष्टितत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावेनानागमत्वात् , आगमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं, यद् बुद्धिगुणैः। वक्ष्यमाणेः करणभूतैरष्टभिदृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा-विपश्चितः, धीराः-व्रतपाल ने स्थिराः, किमुक्तं भवति ?-यदेव जिनप्रणीतवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति ॥ बुद्धिगुणैरष्टभिरित्युक्तमतस्तानेव बुद्धिगुणानाह "सुस्ससह पडिपुच्छइ सुणे गिण्हह य ईहए वावि । तत्तो अपोहए वा धारेह करेइ वा सम्म ॥२२॥" | 3 पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनारविन्दान्निर्गच्छदचनं श्रोतुमिच्छति, ततः प्रतिपृच्छति यत्र शङ्कितं भवति तातत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनः प्रहादयन् पृच्छति, पृष्टे च सति यद्गुरुः कथयति तत् सम्यक्-व्याक्षेपपरि. हारेण सावधानः शृणोति, श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहते-पूर्वापराविरोधेन पर्यालोचयति, चशब्दः समु आ.सू.९ Jain Education Inter For Private & Personal use only Findainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy