________________
पोद्धाते
॥४८॥
नियुक्त्यादि, अथवा वारत्रयं गणधरपृष्टेन सता भगवता तीर्थकरेण यत्प्रत्युच्यते 'उप्पन्नेइ वा विगमेइ वा धुवेइ वासंत्रिभुता इति पदत्रयं तदनुसृत्य यन्निष्पन्नं तदङ्गप्रविष्टं, यत्पुनर्गणधरप्रश्नव्यतिरेकेण शेषकृतप्रश्नपूर्वकं वा भगवतो मुत्कलंदिभेदाः व्याकरणं तदधिकृत्य यन्निष्पन्नं जम्बूद्वीपप्रज्ञप्त्यादि, यच्च वा गणधरवचांस्येवोपजीव्य दृब्धमावश्यकनियुक्त्यादि पूर्वस्थविरैस्तदनङ्गप्रविष्टं, यदिवा यत्सर्वतीर्थकरतीर्थेप्वनियतं तदनङ्गप्रविष्टं, सर्वपक्षेषु द्वादशाङ्गान्यङ्गप्रविष्टं, शेषमनङ्गप्रविष्टं, उक्तंच-"गणहरथेरकयं वा आएमा मुक्कवागरणतोवा। धुवचलविसेसतो वा अंगाणंगेसु नाणत्॥१॥(वि०५५०) ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणधरैरुपनिबध्यन्ते, पूर्वकरणात् पूर्वाणीति पूर्वाचार्यप्रदर्शितव्युत्पत्तिश्रवणात, पूर्वेषु च सकलवाङ्मयस्यावतारो, न खलु तदस्ति यत्पूर्वेषु नाभिहितं, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यविरचनेन वा ?, उच्यते, इह विचित्रा जगति प्राणिनः तत्र ये दुर्मेधसः ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् तेषां च दुर्मेधस्त्वात् , स्त्रीणां पूर्वाध्ययनानधिकार एव, तासां तुच्छत्वादिदोषबहुलत्वात् , उक्तं च-"तुच्छा गारवबहुला चलिंदिया दुखलाधिईए य । इति अइसेसज्झयणा भूयावायोन इत्थीणं ॥१॥(वि०५५२)” अत्र अतिशेषाध्ययनानि-उत्थानश्रुतादीनि भूतवादो-दृष्टिवादः। ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनमिति, उक्तं च-"जइविय भूयावाए सबस्स वयोगयस्स ओयारो। निजहणा तहाविहु दुम्मेहे पप्प इत्थी य॥१॥ (वि०५५१)"गाथाशेष अवधारणप्रयोगं दर्शयता व्याख्यातं ॥ ससदप्ररूपणादि ॥४ ॥ मतिज्ञानवत् आयोज्यं ॥ तदेवं प्रतिपादित स्वरूपेण श्रुतज्ञान, साम्प्रतं विषयद्वारेण निरूप्यते-चतुर्विधं श्रुतज्ञानं, तद्यथाद्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वाणि द्रव्याणि जानाति, नतु पश्यति, क्षेत्रतः सर्व
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org