SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Jain Education International यादिवत्, पर्यायास्तिकनयमतादेशेन सादिसपर्यवसितं अनित्यत्वात् नारकादिपर्यायवत्, आह च भाष्यकृत् - "अस्थिति नयस्तेयं अणाइपज्जतमत्थिकायव । इयरस्स साइसंतं गइपज्जाएहिं जीवव ॥ १ ॥ (वि०५३७)” अथवा द्रव्यादिचतुष्टयम|धिकृत्य साधनाद्यादि भावनीयम्, तद्यथा— एकं पुरुषं प्रतीत्य सादिसपर्यवसितं नानाजीवानाश्रित्यानाद्यपर्यवसितं, कदाचिदपि व्यवच्छेदाभावात्, क्षेत्रतः पञ्च भरतानि पञ्चैवतानि प्रतीत्य सादिसपर्यवसितं, सुषमसुषमादावभावात्, पश्च महाविदेहानधिकृत्यानाद्यपर्यवसितं, सकलकालं तत्र भावात्, कालतोऽवसर्पिणीं उत्सर्पिणीं चाधिकृत्य | सादिसपर्यवसितं तृतीयाधरकेष्वेव भावात्, नोत्सपिण्यवसर्पिणी मधिकृत्यानाद्यपर्यवसितं, महाविदेहेषु सततं भावात्, भावतः प्रज्ञापकगतान् उपयोगस्वरप्रयत्नस्थानविशेषादीन् भावान् गतिस्थानभेदसङ्घातवर्णरसगन्धस्पर्शनादीन् ज्ञेयगतांश्च भावान् प्रतीत्य सादिसपर्यवसितं, प्रज्ञापकभावानां ज्ञेयभावानां चान्यथान्यथाभावात्, क्षायोपशमिकं पुनर्भावम ङ्गीकृत्यानाद्यपर्यवसितं तस्य सर्वकालं भावात् खलुशब्द एवकारार्थः स चावधारणे तस्य च व्यवहितः सम्बन्धः, सप्तैवैते श्रुतपक्षाः सप्रतिपक्षाः, न पुनः पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् । सम्प्रति गमिकद्वारं - तत्र गमा-भङ्गकाः गणितादिविशेषाश्च, यदिवा कारणवशतो ये सदृशपाठास्ते गमाः तेऽस्य सन्तीति गमिकं 'अतोऽनेकस्वरा' दितिमत्वर्थीय इकप्रत्ययः, तच्च प्रायो दृष्टिवादः, उक्तं च नन्द्यध्ययने- "गमियं दिडिवादो” इति, यत्पुनरसदृशपाठं तद् अगमिकं तच्च प्रायः | कालिकं । साम्प्रतं अंगप्रविष्टद्वारं - अथ अङ्गप्रविष्टानङ्गप्रविष्टयोः कः प्रतिविशेषः १, उच्यते, यद् गणधरैः साक्षाद् | हन्धं तदङ्गप्रविष्टं तच्च द्वादशाङ्गं, यत्पुनः स्थविरैर्भद्रबाहुस्वामिप्रभृतिभिराचार्यैरुपनिबद्धं तदनङ्गप्रविष्टं, तचावश्यक For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy