SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ उपोडा ॥४७॥ ॐ%BA% A मग्य मन्यते चिन्तनीयं वस्तुजातं, तेनासौ गर्भजस्तिर्यग्मनुष्यो वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशि-जिला साटमनोलन्धिविकलत्वात् , तथा च सति दीर्घकालिकोपदेशेनासंज्ञी एकेन्द्रियो द्वीन्द्रियादिश्च प्रतिपत्तव्यः, हेतुनिमित्तं भिटा कारणमित्यनर्थान्तरं तस्य वदनं वादः तद्विषय उपदेशः-प्ररूपणं हेतुवादोपदेशस्तेन संज्ञी, यो बुद्धिपूर्वकं स्वदेहपरिपालनाय इष्टेष्वाहारादिषु प्रवर्त्तते अनिष्टेभ्यस्तु निवर्त्तते, स च द्वीन्द्रियादिरपि वेदितव्यः, तस्यापि मनासञ्चिन्त नपूर्वकमिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात, केवलमस्य मनसा चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्विवषयमल्पमनोलन्धिसम्पन्नत्वात् , ततो न दीर्घकालिकोपदेशेन संज्ञी लभ्यते, एतन्मतेनासंजिन एकेन्द्रिया एव द्रष्टव्याः, ४ उक्तं च-"जे पुण सचिंते इटाणिहेसु विसयवत्थुसुं। वत्तंति नियत्तंति य सदेहपरिपालणाहेउं ॥१॥पाएण संपइच्चिय कालंमि तया ण दीहकालण्णू । ते हेउवायसण्णी निचिट्ठा होति उ असणी ॥२॥" (वि०५१५-५१६) तथा दृष्टिः दर्शनसम्यक्त्वादि तस्य वदनं वादः तद्विषय उपदेशः-प्ररूपणं तेन संज्ञी-सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणक्षयोपशमभावात्, असंज्ञी मिथ्यादृष्टिः, उक्तं च-"सम्मदिट्ठी सण्णी संते नाणे खओवसमियंमि । अस्सण्णी मिच्छतं दिट्ठीवायोवएसेणं (वि०५१७)"ततश्च संजिनः श्रुतं संज्ञिश्रुतं, तथा असंज्ञिनः श्रुतमसंज्ञिश्रुतं, तथा सम्यक् श्रुतं-अङ्गानङ्गप्रविष्टमाचा-16 रावश्यकादि, तथा मिथ्याश्रुतं-पुराणरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यकुश्रुतं इतरद्वा; तथाहि- ॥४७॥ सम्यग्दृष्टौ सर्वमपि श्रुतं सम्यक्तं,हेयोपादेयशास्त्राणांहेयोपादेयतया परिज्ञानात्,मिथ्यादृष्टौ सर्व मिथ्याश्रुतं विपर्ययात्॥ तथा सादिसपर्यवसितमनाद्यपर्यवसितं च नयानुसारतोऽवसेब, तत्र द्रव्यास्तिकनयमतादेशेन अनाद्यपर्यवसितं धर्मास्तिका sisex Jain Education te For Private & Personal use only HGw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy