________________
*
*
**
*
**
यदि संज्ञासम्बन्धमात्रेण संज्ञी तत एकेन्द्रिया अपि संज्ञिनःप्राप्नुवन्ति, तेषामप्याहारादिसंज्ञासद्भावात् , तथा च प्रज्ञापनासूत्रम्-"एगिदियाणं भंते ! कइविहा सण्णा पण्णत्ता, गोयमा! दसविहा पन्नत्ता, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्णा" इति, सत्यमेतत्, केवलमेतासु संज्ञासु मध्ये या ओघसंज्ञा लोकसंज्ञा वा साऽतिस्तोका, ततो न तत्सम्बन्धमात्रेण संज्ञीति व्यपदेष्टुं शक्यः, न खलु कार्षापणधनमात्रेण लोके धनवानित्युच्यते, या त्वाहारभयपरिग्रहमैथुनादिका संज्ञा सा भूयस्यपि मोहनीयो. दयप्रभवत्वेन न विशिष्टा, न चाविशिष्टया संज्ञया संज्ञीत्यभिधातुं शक्यं, न ह्यविशिष्टेन मूर्तिमात्रेण लोके रूपवानिति व्यवहारः, ततो या महती शोभना च ज्ञानावरणकर्मक्षयोपशमजन्या मनोज्ञानरूपा संज्ञा तयैव संज्ञीति व्यपदिश्यते,
उक्तं च-"जइ सण्णासंबंधेण सणिणो तेण सणिणो सके। एगिदियाइयाणवि जं सण्णा दसविहा भणिया २॥१॥ थोवा न सोहणाविय जं सा तो नाहिकीरए इहई । करिसावणे न धणवं न रूववं मुत्तिमित्तेणं ॥२॥101
जह वहुदबोधणवं पसन्यरूवो य रूव होइ।महतीए सोहणाए य तह सण्णी नाणसण्णाए ॥३॥" (वि०५०५-५०७) स च संज्ञी त्रिविधस्तद्यथा-दीर्घकालिकोपदेशेन हेतवादोपदेशेन दृष्टिवादोपदेशेन च, तत्र यया संज्ञया सुदीर्घमपि कालमतीतमर्थ स्मरति एष्यन्तं च चिन्तयति, यथा-कथं नु नाम मया कर्तव्यमिति, स दीर्घकालिकोपदेशेन संज्ञी, दीर्घः कालो दीर्घकालः सोऽस्यास्तीति दीर्घकालिकः स चासावुपदेशश्च, उपदेशोभणनं. दीर्घकालिकोपदेशस्तेन, एष च दीर्घकालिकोपदेशेन |संज्ञी मनोज्ञानावरणकर्मक्षयोपशमशान्मनोलन्धिसम्पन्नोऽनन्तान् मनोयोग्यान पुद्गलान् गृहीत्वा मनस्त्वेन परिण
%
%
%
Jain Education Intema
For Private & Personal Use Only
Jainelibrary.org