________________
शक्तिस्तस्माच्चतुर्दशविधनिक्षेपं, निक्षेपणं निक्षेपो-नामादिन्यासः चतुईशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपः तं, 'श्रुतज्ञाने' श्रुतज्ञानविषयं, पशब्दात् श्रुताज्ञानविषयमपिशव्दादुभयविषयं च, तत् श्रुतज्ञाने-सम्यक्श्रुते श्रुताज्ञाने-असंज्ञिमिच्याश्रुते उभयश्रुते-दर्शनविशेषपरिग्रहादक्षरानक्षरादिरूपे वक्ष्ये-अभिधास्ये, उकंच-"नाणंमि सुए चोदसविहं सहेण तहय अन्नाणे । अविसद्देणुमयंमिवि किंचि जहासंभवं योच्छं॥१॥" (वि०४५३) सम्पति चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनार्थमाह
"अक्सर सण्णी सम्म साईयं खलु सपज्जवसियं च । गमियं अंगपविढे सत्तवि एएसपडिवक्खा ॥१९॥"IA अक्षरादीनि सस द्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति, सर्वत्र च 'सूचनात् सूत्र'मितिकृत्वा श्रुतशब्दो द्रष्टव्यः, अक्षरं श्रुतमनधरश्रुतमित्यादि, तत्र अक्षरमिति 'क्षर सञ्चलने' न क्षरतीत्यक्षरं, तच्च ज्ञान-चेतना, न खल्विदमनुपयोगेऽपि प्रच्यवते ततोऽक्षरमिति भावः, इत्थंभूतभावाक्षरकारणत्वादकारादिकमप्यक्षरमभिधीयते, कारणे कार्योंपचारात्, अथवा अर्थान् क्षरति न च वयमुपयातीत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथा-संज्ञाक्षरे व्यञ्जनाक्षरं लन्ध्य-1 क्षरं चेति, तत्र संज्ञाक्षरमक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुटिसंस्थानश्चकार इत्यादि, तच ब्राहयादि-15 लिपीविधानादनेकविध, तथा व्यञ्जनाक्षरं-व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं च व्यञ्जना-14 कर, तह सर्वमेव भाग्यमाणमकारादि हकारान्तं, अर्धाभिव्यञ्जकत्वात् , तथा योऽक्षरोपलम्भस्तल्लन्ध्यक्षरं, तच्च इन्द्रि-15 यमनोनिमित्तं श्रुतग्रन्थानुसारि ज्ञानं तदावरणक्षयोपशमोवा, तत्र संज्ञाक्षरं व्यञ्जनावरं च द्रव्यावर, श्रुतज्ञानाख्य-1
*
an Educatarina
For Private & Personal Use Only
www.jainelibrary.org